Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 188
________________ तबेतुपरीक्षणम्] द्वादशारनयचक्रम् १०६५ स्वासम्भवित्वविशेषणासिद्धिः, सिद्धत्वमभ्युपेत्याप्यनैकान्तिकं कार्यदर्शनं तद्दर्शयति-नन्वविवादेत्यादि, आवयोरविवादेन शिबिकावाहकेभ्यश्चतुर्यो व्यतिरिक्तात् सहायाहतेऽपि शिबिकावहनं दृष्टं कार्यमतोऽनैका न्तिकं तत्, तथा प्रत्येकवस्त्वित्यादि यावदलातचक्रवदिति, भारवहनक्रियायाः समुदायिध्वेव सम्भवं समुदाये च [अ]सम्भवं दर्शयितुं समुदायप्रतिषेधार्थ न्यायमाह-तेन प्रकारेण तथा रूपादिवस्तुनः प्रत्येकं वृत्तिः, तामनतिक्रामन्त एव स्वां वृत्तिमवतिष्ठन्ते रूपादयः, स्ववृत्त्यत्यागव्यवस्थयैव भारवहनादिक्रियामारभन्ते, तेषामेव । वस्तुत्वात्, अन्यथा-वस्तुनो विपर्यये, निर्विवरं देशभेदेन स्थितानां रूपादीनामेव वस्तुत्वात् ततोऽन्यथासमुदायाख्यस्यार्थस्य परिकल्पनामात्रत्वादनवस्थितैकस्वतत्त्वत्वात् , अलातचक्रवत् , यथाऽलातस्य भ्राम्यतः चक्रवदाभानं भ्रान्तपरिकल्पनामात्रं निर्विवरत्वात् तथा रूपादीनां निर्विवराणां परमाण्यादिवदाभानं भ्रान्तपरिकल्पनामात्रम् किमङ्ग ! पुनः सविवरसविवरतरसविवरतमघटपटादिनगरादिपृथिव्यादी[ना]म् , ससमुदायानाम् , न ह्येषां समुदायानामेकं स्वतत्त्वमवस्थितम् , रूपादिवत् परस्परविविक्तमस्त्यतोऽलातचक्र 10 भ्रान्तं रूपादि परतत्त्वव्यपदेशभाक्त्वात् , तस्मादसतः समुदायस्य[न] भार][ह]नादिका क्रियेति । आह ननु घटादावनवस्थितैकस्वतत्त्वत्वस्य सत्त्वमिति चेन्न समुदायत्वाद् घटस्य शकटादिवदेव साध्यत्वात् , रूपरूपादिस्थितकरूपत्वेऽपि सत्त्वमिति चेन्न, रूपसामान्यसमुदायसाध्यत्वात् । रूपविशेषणासिङ्ख्याऽसिद्धो हेतुस्तवेति भावः। हेतोः सिद्धत्वमभ्युपेत्यापि हेतोरनैकान्तिकत्वमाह-सिद्धत्वमभ्युपेत्यापीति, 16 प्रत्येकं रूपादावदर्शनात् सिद्धत्वमिति भावः । अनैकान्तिकत्वं घटयति-नन्वविवादेत्यादीति, चत्वारः शिबिकावाहकाः वहन्ति शिबिकाम् , प्रत्येकन्तु शिबिकावाहकेषु वहनमदृष्टमपि तेभ्यो व्यतिरिक्तस्य कस्यापि सहायमनपेक्षमाणास्त एव चत्वारो वहन्ति तस्मात् खासम्भविकार्यदर्शनं तत्रास्ति नास्ति च साध्यं खतो व्यतिरिक्तसहकारिसम्बन्धित्वमित्यनैकान्तिकमिति भावः । ननु भारवहनक्रियाऽपि शिबिकावाहकसमुदाये एव भवति प्रत्येक शिबिकावाहकैस्तस्या असम्भवादित्यत्राह-तथा प्रत्येकवस्त्वित्यादीति । अस्य मूलस्य भावमाह-भारवहनेति। रूपादयः स्वकीय प्रत्येकवृत्त्यपरित्यागेनैव व्यवस्थितास्तत्तत्किया: 20 कुर्वन्ति, तथाविधस्यैव वस्तुत्वात् , यदि समुदाय एव तकिया भवेयुस्तहि रूपादयः स्ववृत्तिपरित्यागेन क्रियामारभन्त इति स्यात्तथा सत्यवस्तुत्वप्रसङ्गः, खवृत्तिपरित्यागादेव, तस्मान्नास्ति कश्चित्समुदाय इति भावः । एवञ्च निर्विवरं देशभेदेन स्थिता रूपादय एव: वस्तुभूता घटादिसंज्ञा लभन्ते, ततोऽन्यप्रकारः समुदाय कल्पित एवेत्याह-अन्यथेति । कल्पितत्वे हेतुमाह-अनवस्थितैकस्वतत्त्वत्वादिति, प्रत्येकं रूपादीनां यत्स्वतत्त्वं तत्रानवस्थितत्वादित्यर्थः । निर्विवरतया तथातथाऽवस्थानादेव घटपटादिरूपतोऽवभासनं भवति कल्पनया, यथा भ्राम्यतोऽलातस्य निर्विवरतयाऽवस्थानादेव चक्रवदवभासनं भवति तच्च परिकल्पनामात्रं तथैव 25 रूपादयः सविवरनिर्विवरतारतम्यात् परमाणुद्वयणुकादिघटपटादिपृथिव्यादिविलक्षणसमुदायरूपेणाभासन्ते, ते च समुदायाः प्रतिनियतैकवतत्त्वे न व्यवस्थिताः, रूपादिवत्, किन्तु परस्परविभिन्नवतत्त्वादलातचक्रवत् भ्रान्ता एव, रूपादिभ्यो व्यतिरिक्त-: तत्त्वव्यपदेशभाक्त्वात् , तस्मान्नास्ति कश्चित् समुदायः, यस्य भारवहनादिक्रिया भवेत् , किन्तु समुदायिशिबिकावाहकानामेवेति निरूपयति-यथाऽलातस्येति । दार्टान्तिके परमाणोरेव कल्पनामात्रत्वे किं पुनर्वक्तव्यं तन्निर्मितत्वेनाभिमतानां घटपटादीना: मित्याशयेनाह-किमङ्ग पुनरिति । एषां समुदायानां कल्पनामात्रत्वेन वस्तुतोऽसत्त्वान्न समुदायस्य भारवहनादिका क्रियेत्याह-30 तस्मादिति । समुदायस्यासत्त्वसाधकानदस्थितैकखतत्त्वत्वहेतोर्व्यभिचारमाशङ्कते-ननु घटादाविति । असत्त्वशून्ये घटादौ सि.क्ष. छा. डे. स्वतंत्रत्वात् । ... १.छा. 'त्यादि भावयोरविवादेत्यादि भावयोरविवादेन । २ छा. वर्तहितुं । १ सि.क्ष. छा.डे. °चक्रवदासांतारूपादि। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364