Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 157
________________ १०३४ न्यायागमानुसारिणीव्याख्यासमेतम् [नियमभङ्गारे नलक्षणत्वात् , यथाऽग्नीन्धनयोर्दहनदाह्यादिव्यवस्थानभिन्ने लक्षणे स्त इत्यनुभयत्वं नास्तीत्युक्तं तथेह भावविशेषयोरप्यनुवृत्तिव्यावृत्तिव्यवस्थानभिन्ने लक्षणे स्त इत्यनुभयत्वमप्यवचनीयं पूर्ववच्च गमनीयमिति, तत्प्रसाधनार्थमाह-यदि ह्यनुवृत्तीत्यादि, अनिष्टापादनोदाहरणे तु विशेष:-ततो रूपादिरपीत्यादि, रूपं विशेषो रसोऽपि प्रवर्तेत पृथगेव भावात्-स्वेनैव रूपेण, व्यावृत्तिरूपरहितत्वात् , भाववत्, भावोऽपि 5 चानुवृत्तिरूपः सन् रूपादेः पृथगेव व्यावर्तेत, अनुप्रवृत्तिरूपरहितत्वात् , खपुष्पवत् , यद्यनुप्रवृत्तिव्यावृत्ती सामान्यविशेषयोः भिन्नव्यवस्थाने न स्यातां स्यादेष प्रसङ्गः, प्रस्तुते यस्माद्भावो रूपरसादिष्वनुप्रवर्त्तमानो दृश्यते, विशेषश्च रूपरसादिभ्यः परस्परं व्यावर्त्तमानः, तस्मान्नानुभयत्वमप्यस्ति, किन्तु भिन्नव्यवस्थानलक्षणमुभयत्वमस्तु-अन्यत्वमित्यर्थः, एतदनभ्युपगमे दोष उच्यते-भिन्नव्यवस्थानेत्यादि यावदुभयत्वं स्यात् , सर्वात्मकैकभाव एवोभयत्वं स्यादत्यन्ताभावे खपुष्प एव वा, गत्यन्तराभावात् तच्चानिष्टं सर्वात्मकैक10 भावोभयत्वमत्यन्ताभावोभयत्वं वा, अनुभयत्वप्रतिषेधादित्यादि पूर्ववत्तुल्यगमो ग्रन्थो यावत् सर्वथैवावक्तव्यतैवेति दृष्टान्ताग्नीन्धनोपसंहारवद्दार्टान्तिकभावविशेषोपसंहारेण गतार्थः, एवमापाद्यावक्तव्यतां सामान्यविशेषयोरतिदिशति-द्रव्यगुणकारणकार्यादिष्वप्येवमेवेति, एवं हि भवति भवनमग्नीन्धनवदित्युपक्रम्य उभयोः पार्थक्येन व्यवस्थापकलक्षणस्य सद्भावात् , ययोभिन्नव्यवस्थापकलक्षणसत्त्वं तयोरनुभयत्वावचनीयत्वं दृष्टम् , यथाऽग्नीन्ध नयोः, तयोहि दाह्यत्वदाहकत्वरूपभिन्नलक्षणसद्भावादनुभयत्वावक्तव्यत्वं व्यवस्थापितं तथाऽनुवृत्तिव्यावृत्तिरूपभिन्नव्यवस्थापक15 लक्षणयोः सद्भावात्तयोरनुभयत्वमप्यवक्तव्यमेवेति निरूपयति-अनभयत्वमसत्त्वमिति । यदि तयोभिन्नताव्यवस्थापकं लक्षणं न स्यात्तर्हि प्रसज्यतेऽनिष्टमित्यनिष्टप्रसङ्गापादनद्वारेण प्रकृतमर्थमनुभयत्वावचनीयंत्वं समर्थयति-यदि हानुवृत्तीत्यादीति। अनुवृत्तिव्यावृत्तिरूपभिन्नव्यवस्थानलक्षणाभाव आपादकः, तयोः प्रवृत्तिसङ्कीर्णता आपाद्या, तत्रोदाहरणं रूपादिविशेषो भावश्च अग्नीन्धनोदाहरणाद्विशेषं दर्शयति-ततो रूपादिरपीत्यादीति, तत्र विशेषो रूपम् , आदिना रसादिरपि ग्राह्यः, अयं रूपादिर्यदि व्यावृत्तिरहितः स्यात् तर्हि भावं विनापि खयमेव भाववत् प्रवर्ततेति प्रवृत्तिसाङ्कर्य बोध्यम् । एवं भावोऽपि यद्यनुप्रवृत्तिरहित20 स्यात्तर्हि रूपादिमन्तरेणापि स्वरूपेणैव व्यावर्तेत खपुष्पवदिति लक्षयति-भावोऽपि चेति । सामान्यविशेषयोरपि स्वकीये लक्षणे परस्परासङ्कीर्णे यदि न स्याता तह-तरेतरप्रवृत्तिप्रसङ्गदोषः स्यात् परन्तु तथा नास्ति, घटपटादिरूपरसादिषु भावोऽनुप्रवर्त्तमान एव दृश्यते, विशेषश्च घटः पटादिभ्यो रूपं रसादिभ्यः परस्परं व्यावर्त्तमान एव दृश्यतेऽतो भिन्नव्यवस्थानलक्षणत्वादनुभयत्वमपि नास्तीत्याह-यद्यनुप्रवृत्तीति । उभयत्वं भिन्नव्यवस्थानलक्षणमन्यत्वार्थकमाशङ्कते-किन्विति । इदञ्चोभयं भिन्नव्यवस्थान लक्षणमपि प्रोक्तरूपेणोभयत्वं सामान्यविशेषविषयं नाभ्युपगम्यते किन्त्वन्याहगेव, तच्च सर्वात्मकैकनित्यभूतकालनियतिस्वभाव26 प्रधानपुरुषादिष्वेकं भावतत्त्वं तथाऽसदपोहं निरुपाख्यमवस्तु अत्यन्तासत् खपुष्पादिध्वेकमादायोभयरूपं परिगृह्यते गत्यन्तराभावादित्याह-एतदनभ्युपगम इति, भिन्नव्यवस्थानवृत्तोभयत्वानभ्युपगम इत्यर्थः, ईदृशोभयत्वानभ्युपगमश्चैकत्वान्यत्वानुभयत्वासम्भवस्योक्तत्वादिति । तर्हि कीदृशमुभयत्वमित्यत्राह-सर्वात्मकैकभावेति, सर्वात्मके एकस्मिन् भावे एव कालादिरूपे वृत्तमुभयत्वं अथवाऽत्यन्ताभावे वृत्तमुभयत्वम् सर्वात्मकभावैकघटितमसद्धटितञ्चोभयत्वमिति भावः। तत्र दोषमाह-तच्चानि ष्टमिति, तथाविधकालादिभावानां पूर्वोक्तभङ्गेषु निरस्तत्वादिति भावः । उभयत्वानुभयत्वयोः परस्परपरिहारस्थितिकतयैकप्रतिषे30 धेऽपरस्यावश्यकत्वादनुभयत्वप्रतिषेधे उभयत्वमवश्यं प्राप्नोतीत्याशङ्कते-अनुभयत्वप्रतिषेधादित्यादीति, तचोभयत्वमन्यत्व रूपमेव, अन्यत्वन्तु प्राक् प्रतिषिद्धमेव, न चान्यत्वप्रतिषेधे एकत्वं प्राप्नोतीति वक्तव्यम् , तस्यापि निराकृतत्वात् , तदेवमेकत्वान्यत्वोभयत्वानुभयत्वानां प्रतिषेधात् सामान्यविशेषयोरप्रवृत्तेरसत्वात् , असतोश्च प्रधानोपसर्जनभावयोर्भावगतयोरनुपपत्तिरेवेति प्रधानोपसर्जनभावस्याप्यसम्भवाद्वस्तु सर्वथाप्यवक्तव्यमेवेति भावः। तदेवं सामान्यविशेषयोरवक्तत्वापत्तिवद्व्यगुणयोः कार्यकारणयोरप्यवक्तव्यत्वमित्थमेव भाव्यमित्यतिदिशति-एवमापाद्येति । अतिदिश्यमानग्रन्थं सूचयति एवं हि भवतीति अत्रामीन्ध सि. प्रदर्शित क्ष. प्रवर्शित । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364