________________
२४]
[दीपालिकापर्वसंग्रहः ॥ तंदा च मथुरापुर्यामकस्माद्रामकृष्णयोः । निपतिष्यत्यायतनं, वाताहतजरद्रुवत् ॥११९॥ क्रोधमानमायालोभा, सदा काष्ठे घुणा इव । नैसर्गिका भविष्यन्ति, तस्मिन् क्रूरतराशये ॥१२०॥२ चौरा राजविरोधो, राड्भयं गन्धरसक्षयः । दुर्भिक्षमीत्यवृष्टी च, भविष्यन्ति तदा खलु ॥१२१॥ कुमारोऽष्टादशाब्दानि, तावन्त्येव च डामरी ।
ततः परं प्रचण्डात्मा, राजा कल्की भविष्यति ॥१२२।। १. तदा कल्कीजन्मनि संपन्न इत्यर्थः । २. १२०-१२१ मध्ये श्लोकोऽयमवलोक्यते
तदा कषायाश्चत्वारो वृद्धिमेष्यन्ति भुव्यपि ।
मतं गजा इव वनं जनं नेष्यन्ति च क्षयम् ॥१॥ ३. श्लोकोऽयं B.H मध्ये नास्ति । ४. इत्थं चायं कल्की आ अष्टादशाब्दी कुमारत्वेऽवसत् , तावन्त्येव च वर्षाणि डामरी-चौरा राजविरोधो....इति श्लोकोक्तो महाविप्लवोऽभवत् । ततश्च अष्टादशेऽब्दे कल्की राजा बभूवेति पूर्वोक्तार्थस्यानुवादकोऽयं श्लोकः । ५. श्लोक११६अनन्तरं F मध्ये संस्कृतप्राकृतमिश्रितपाठः किञ्चिदशुद्धरूपेण एवमधिकं दृश्यते ।
मम सिद्धिगयस्स पुणो, पालयराया अवन्तीनयरीए होही । तं रयणीस्विय सट्ठि-वासाई पुहईवई ॥१॥
एतत् अङ्कतोऽपि दृश्यते । पालकराज्यं वर्ष ६० । नवनन्दराज्यं वर्ष १५५ । मोरीयवंश १०८ । पुष्पमित्रवंश ३० । बलमित्र भानुमित्र वर्ष ६० । सामीवाहनवर्ष ४० । गर्दभिल्लवर्ष १७ । एवं जिनसंवत्सरो ८६ । सुन्नमुणिवेयजुत्तं विक्कमकालाओ जिनकालम् ।
संजाते विक्रमराज्यवर्ष १३५ । शाकसंवत्सर ६०५ उभयं विक्रमशतसंवत्सरमिलने वर्षत ८१४ ततो वनराजराज्यं वर्ष ६० योगराज वर्ष १० रत्नादित्य वर्ष ४ वैरसिंह वर्ष ११ खिमराजवर्ष ३० चामुण्डराज वर्ष २६ अगडराजवर्ष २६ । भूयडवर्ष १६ । चापोत्कटानां राज्यमेवं वर्ष १६६ । ततः सोलंकीय श्रीमूलराजवर्ष ८५ । चामुण्डराजवर्ष १२ । वल्लभराजमास ६ । दुर्लभराट वर्ष १२ । भीमवर्ष ४० तत्र महं. नेडविमस्तौ अमात्यौ कर्णदेवराज्यं वर्ष ३० । तत्र महं. श्री आणंदधवलौ अमात्यौ । श्रीजयसिंहदेवराज्यं वर्ष ४६ । कुमारपालदेव राज्यं ३० मास ६ । अजयदेव वर्ष ३ तत् पुत्रः लघुमूलराजराज्यं वर्ष २ तत् पुत्रः भीमदेवराज्यं वर्ष ६३ मास ६ । १२३४ वर्षे चैत्र सुद १५ तत्पुत्रतिहुअणपालदेवराज्यं वर्ष ३ एवं २६१ । अनन्तरं राज्यं क्रमेण श्रीवीरतीर्थकरनिर्वाणवर्धमानसंवत्सर ८६० तथा
D:\chandan/new/kalp-1/pm5\3rd proof