Book Title: Dipalika Kalpa Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 201
________________ दीपालिकाव्याख्यानम् ॥] [१७३ तदेतेषां फलं निवेदय । भगवता प्रोक्तं सावधानतया श्रृणु-प्रथमे स्वप्ने यत्त्वयाऽतिजीर्णशालासक्तः करीन्द्रो दृष्टस्तत्फलमेवं पञ्चमारके मातङ्गसदृशा गृहस्थाः क्रमेण दौर्भाग्यदरिद्रेष्टवियोगानिष्टसंयोगादिप्रभूतदुःखमयेऽतिजीर्णशालानिभे गृहवासे रक्ताः सन्तो वसिष्यन्ति न तूपदेशसहस्रैरपि दुःखघ्नां सौख्यप्रदां दीक्षाशालां सेविष्यन्ति कदाचित् केचित् कथञ्चन तां समादरिष्यन्ति तेष्वपि केचित्कुसङ्गतो भग्नपरिणामाः 5 श्रद्धारहिताः सन्तोऽनादरेण व्रतं पालयिष्यन्ति केचिच्च दीक्षां त्यक्त्वा पुनर्गृहं गमिष्यन्ति निर्मलं चारित्रं तु केचिद्विरला एव पालयिष्यन्तीति । द्वितीयस्वप्ने यत्त्वया चापल्यं कुर्वन् कपिदृष्टस्तत्फलमेवं पञ्चमारके कपिसदृशचपलप्रकृतयः स्तोकसत्त्वाः केचिद् मुनयो ज्ञानक्रियातपःप्रभृतिष्वनादरा भविष्यन्ति विविधदोषांश्च सेविष्यन्ति ज्ञानक्रियातपःप्रसक्तान्सुमुनींश्च हसिष्यन्ति प्रबोधयितारं चाचार्यादिकमप्यवगणिष्यन्ति 10 स्थिरप्रकृतयो धर्मधनार्जनपरास्तु विरला एव भविष्यन्त्येवं गृहस्था अपीति । तृतीयस्वप्ने यत्त्वया बब्बूलवृक्षव्याप्तः क्षीरवृक्षो दृष्टस्तत्फलमेवं पञ्चमारके क्षीरपादपसदृशाः सुश्रावका बब्बूलतरुतुल्यैः कुलिङ्गिभिश्छलनापरैश्चेाक्रोधादियुक्तैः सुलिङ्गधारिपार्श्वस्थादिभिर्निरुद्धा भविष्यन्ति तैरेव च सुसाधुजनानां विहारवस्त्यादिभूमयः प्रतिरोत्स्यन्तेऽसहिष्णुतया च सुमुनिजनानां दोषान् कथयित्वा महत्वपूजासत्कारादिकं 15 निवारयिष्यते ततो विरला एव विचक्षणा जिनवचनसुनिपुणा सुश्राद्धा जिनवचनपालनपराणां सुमुनीनां पूजनसत्कारादिकं करिष्यन्तीति । चतुर्थस्वप्ने यत्त्वया स्वच्छजलपूर्णवापीसरांसि त्यक्त्वा काका: समलस्वल्पजलपल्वलेषु रक्ता दृष्टास्तत्फलमेवं पञ्चमारके स्वच्छजलपूर्णवापीसरस्तुल्यं विशेषज्ञानक्रियायुक्तं सम्प्रदायं गच्छं वा त्यक्त्वा ग्राह्याग्राह्यवस्तुज्ञानशून्याः काकतुल्याः केचिन्मुनयः समलस्वल्पजल- 20 पल्वलनिभं ज्ञानक्रियासदाचारतपःशिथिलं दोषसेवनभयवजितं सम्प्रदायं गच्छं वा गमिष्यन्ति यदि केऽपि ज्ञानक्रियादिप्रियाः सुसाधवो युष्माकमेतन्न युक्तमिति प्रेरणां करिष्यन्ति तहि तैः सह प्रभृतमत्सरा जडस्वभावास्ते द्वेष करिष्यन्तीति । पञ्चमस्वप्ने यत्त्वया मृतकेसरी परश्वापदैरधृष्यो दृष्टस्तत्फलमेवं पञ्चमारके क्रमेण तपःसमुत्पन्नलब्धिजातिस्मरणज्ञानाद्यतिशयविकलं मृतकेसरिसजिनधर्मं पूर्वानुभावतः परश्वा- 25 पदतुल्याः परतीथिका बुद्धिपूर्वकं न पराभविष्यन्ति किन्तु स्वमतिकल्पितविविधमतप्ररूपणकदाग्रहिणः स्वशासनोत्पन्ना एव कीटका इव भेत्स्यन्ति सारमेया इव च D:\chandan/new/kalp-2/pm5\3rd proof

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304