Book Title: Dipalika Kalpa Sangraha
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 213
________________ दीपालिकाव्याख्यानम् ॥] [१८५ जिनप्रासादैर्धरित्री मण्डयिष्यति साधुसाध्ठ्यादिश्रीसङ्घस्य च भक्तिपर: प्रमादवर्जितः स बहुप्रकारैर्जिनशासनप्रभावनां करिष्यति, ततः प्रभृतिजिनशासनस्य महिमा वृद्धि गमिष्यति पञ्चमारके, जिनशासनभक्तिरता धरापालाः षोडशसहस्राधिकैकादशलक्षाणि भविष्यन्ति सर्वज्ञदर्शनप्रभावकाः सचिवा एककोटिप्रमाणा भविष्यन्ति । श्रीमत्सुधर्मस्वाम्याद्याश्च युगप्रधानपदशालिनो महोपकृतिकारिणश्चतुरधिकद्वि- 5 सहस्रमिताः सूरीन्द्रा भविष्यन्ति, तेषु सुधर्मजम्बूसूरीशौ तद्भवमुक्तिगामिनी शेषाः सर्व एकावतारिणो भाविनः । षोडशाधिकैकादशलक्षैकादशसहस्रप्रमाणा युगप्रधानतुल्याः परोपकाररताः सूरयो भविष्यन्ति, त्रयस्त्रिंशल्लक्षचतुःसहस्रचतुःशतैकोनविंशतिप्रमाणाश्च सामान्याः सूरयो भविष्यन्ति, पञ्चपञ्चाशत्कोटिपञ्चपञ्चाशल्लक्षकोटिपञ्चपञ्चाशत्सहस्रकोटिचतुःपञ्चाशच्शतकोटिचतुश्चत्वारिंशत्कोटिप्रमाणाश्चोपाध्याय- 10 पदशालिनो वाचनाचार्या भविष्यन्ति, सप्ततिलक्षकोटिनवसहस्रकोट्ये कशतकोट्येकविंशतिकोठ्येकलक्षषष्टिसहस्रप्रमाणाश्च सुसाधवो भविष्यन्ति, दशकोटिकोटिद्वादशशतकोटिद्वानवतिकोटिद्वात्रिंशल्लक्षनवनवतिसहस्रैकशतमिताश्च साध्व्यो भविष्यन्ति, षोडशलक्षकोटित्रिसहस्रकोटित्रिशतकोटिसप्ततिकोटिचतुरशीतिलक्षप्रमाणाश्च श्रावका भविष्यन्ति, पञ्चत्रिंशल्लक्षकोटिद्वानवतिसहस्रकोटिपञ्चशतकोटि- 15 द्वात्रिंशत्कोटिप्रमाणाश्च श्राविका भविष्यन्तीति यत्पञ्चमारकस्य चतुर्विधसङ्घस्य प्रमाणं भविष्यति । केचनाचार्या एतत्सङ्घप्रमाणं पञ्चभरतैरवतयोरिति कथयन्ति, केचन च पञ्चभरतसङ्घप्रमाणमेतदिति कथयन्ति, पुनः केचिदेतदेकभरतसङ्घप्रमाणमिति कथयन्ति, तत्र तत्त्वं तु केवलिगम्यं । किञ्च पञ्चमारकप्रान्ते द्विहस्तप्रमाणदेहो द्वादशवर्षायुष्कश्चारित्रं गृहीत्वा षोडशे वर्षे 20 प्राप्ताचार्यपद उत्कृष्टषष्ठतपःकृद् नन्द्यनुयोगद्वारावश्यकजितकल्पदशवैकालिकसूत्रज्ञो युगप्रधानपदशाली देवेन्द्रवन्दितचरणकमलः श्रीदुःप्रसहसूरिर्भविष्यति, स विंशतिसंवत्सरायुष्कः कृताष्टमतपाः प्रथमदेवलोकं यास्यति । तत्र देवसुखमनुभूय भरतक्षेत्रे मानुष्यं प्राप्य मुक्ति गमिष्यति पञ्चमारके विंशतिसहस्रनवशतवर्षत्रिमासपञ्चदिवसपञ्चप्रहरैकघटीद्विपलैकचत्वारिंशदक्षरोच्चारणप्रमाणकालो जिनधर्मो विशेषत्वेन 25 भविष्यति, नवनवतिसंवत्सराष्टमासचतुर्विंशतिदिवसद्विप्रहरसार्द्ध पञ्चघटीसप्तपञ्चाशत्पलैकोनविंशत्यक्षरोच्चारप्रमाणकालो जिनधर्मः स्तोकत्वेन स्थास्यति । D:\chandan/new/kalp-2/pm5\3rd proof

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304