________________
दीपालिकाव्याख्यानम् ॥]
[१८५ जिनप्रासादैर्धरित्री मण्डयिष्यति साधुसाध्ठ्यादिश्रीसङ्घस्य च भक्तिपर: प्रमादवर्जितः स बहुप्रकारैर्जिनशासनप्रभावनां करिष्यति, ततः प्रभृतिजिनशासनस्य महिमा वृद्धि गमिष्यति पञ्चमारके, जिनशासनभक्तिरता धरापालाः षोडशसहस्राधिकैकादशलक्षाणि भविष्यन्ति सर्वज्ञदर्शनप्रभावकाः सचिवा एककोटिप्रमाणा भविष्यन्ति । श्रीमत्सुधर्मस्वाम्याद्याश्च युगप्रधानपदशालिनो महोपकृतिकारिणश्चतुरधिकद्वि- 5 सहस्रमिताः सूरीन्द्रा भविष्यन्ति, तेषु सुधर्मजम्बूसूरीशौ तद्भवमुक्तिगामिनी शेषाः सर्व एकावतारिणो भाविनः । षोडशाधिकैकादशलक्षैकादशसहस्रप्रमाणा युगप्रधानतुल्याः परोपकाररताः सूरयो भविष्यन्ति, त्रयस्त्रिंशल्लक्षचतुःसहस्रचतुःशतैकोनविंशतिप्रमाणाश्च सामान्याः सूरयो भविष्यन्ति, पञ्चपञ्चाशत्कोटिपञ्चपञ्चाशल्लक्षकोटिपञ्चपञ्चाशत्सहस्रकोटिचतुःपञ्चाशच्शतकोटिचतुश्चत्वारिंशत्कोटिप्रमाणाश्चोपाध्याय- 10 पदशालिनो वाचनाचार्या भविष्यन्ति, सप्ततिलक्षकोटिनवसहस्रकोट्ये कशतकोट्येकविंशतिकोठ्येकलक्षषष्टिसहस्रप्रमाणाश्च सुसाधवो भविष्यन्ति, दशकोटिकोटिद्वादशशतकोटिद्वानवतिकोटिद्वात्रिंशल्लक्षनवनवतिसहस्रैकशतमिताश्च साध्व्यो भविष्यन्ति, षोडशलक्षकोटित्रिसहस्रकोटित्रिशतकोटिसप्ततिकोटिचतुरशीतिलक्षप्रमाणाश्च श्रावका भविष्यन्ति, पञ्चत्रिंशल्लक्षकोटिद्वानवतिसहस्रकोटिपञ्चशतकोटि- 15 द्वात्रिंशत्कोटिप्रमाणाश्च श्राविका भविष्यन्तीति यत्पञ्चमारकस्य चतुर्विधसङ्घस्य प्रमाणं भविष्यति । केचनाचार्या एतत्सङ्घप्रमाणं पञ्चभरतैरवतयोरिति कथयन्ति, केचन च पञ्चभरतसङ्घप्रमाणमेतदिति कथयन्ति, पुनः केचिदेतदेकभरतसङ्घप्रमाणमिति कथयन्ति, तत्र तत्त्वं तु केवलिगम्यं ।
किञ्च पञ्चमारकप्रान्ते द्विहस्तप्रमाणदेहो द्वादशवर्षायुष्कश्चारित्रं गृहीत्वा षोडशे वर्षे 20 प्राप्ताचार्यपद उत्कृष्टषष्ठतपःकृद् नन्द्यनुयोगद्वारावश्यकजितकल्पदशवैकालिकसूत्रज्ञो युगप्रधानपदशाली देवेन्द्रवन्दितचरणकमलः श्रीदुःप्रसहसूरिर्भविष्यति, स विंशतिसंवत्सरायुष्कः कृताष्टमतपाः प्रथमदेवलोकं यास्यति । तत्र देवसुखमनुभूय भरतक्षेत्रे मानुष्यं प्राप्य मुक्ति गमिष्यति पञ्चमारके विंशतिसहस्रनवशतवर्षत्रिमासपञ्चदिवसपञ्चप्रहरैकघटीद्विपलैकचत्वारिंशदक्षरोच्चारणप्रमाणकालो जिनधर्मो विशेषत्वेन 25 भविष्यति, नवनवतिसंवत्सराष्टमासचतुर्विंशतिदिवसद्विप्रहरसार्द्ध पञ्चघटीसप्तपञ्चाशत्पलैकोनविंशत्यक्षरोच्चारप्रमाणकालो जिनधर्मः स्तोकत्वेन स्थास्यति ।
D:\chandan/new/kalp-2/pm5\3rd proof