________________
१८४]
[ दीपालिकापर्वसंग्रहः ॥ तेषां पार्वादधिकं ग्रहीष्यति, ततः पुनरपि नूतनं नूतनं करं गृहीष्यति । पुनर्लोकानामुपरिष्टादसत्कलङ्कानि प्रदाय तेषां धनं गृहीष्यति, भिन्नभिन्नप्रपञ्चेन च वित्तं समादाय लोकान्निर्धनान् करिष्यति । कनकरूप्यनाणकमपि स्ववशीकृत्य चर्मनाणकं प्रवर्तयिष्यति, तापसपरिव्राजकादिभ्योऽपि करयाचनां करिष्यति, तेऽपि परिग्रहारम्भादियुक्ताः सन्तस्तस्मै करं दास्यन्ति, निर्धनत्वेन लोकानां पार्वेऽशनाऽर्थं धातुभाजनमपि न स्थास्यति ते तरुपणेषु भोजनं विधास्यन्ति, स कलङ्की कदाचिन्मुक्तपरिग्रहान् जैनमुनीन् निरीक्ष्याऽतिलोभतस्तेषां पार्वादपि भिक्षाषष्टांशं प्रार्थयिष्यति, ततो मिलिताभिः साधुभिर्विचार्य कृतकायोत्सर्गसमाहूता शासनसूरी
साधुभिक्षाषष्ठांशग्रहणदुष्कार्यतः कलङ्किनं वारयिष्यति, ततः स भूपः केषाञ्चिद्वेष10 धारिणां वेषांस्त्याजयिष्यति, तस्य दुरात्मनः पुनः प्रान्तकाले साधुभिक्षाषष्ठांश
ग्रहणदुर्बुद्धिर्भविष्यति तया दुर्बुद्ध्या स साधूनां पार्वाद् भिक्षाषष्ठांशमर्थयिष्यति, परं साधवो न दास्यन्ति तदा पापात्मा स आचार्यादीन् सर्वमुनीन् गोवाटके संरोत्स्यति, तत आचार्योपाध्यायसाधुप्रमुखः सङ्घः शासनदेवताराधनाकृते कायोत्सर्गं विधास्यति
तत्कायोत्सर्गप्रभावेण शासनसूरी समागत्य कलङ्किन उपदेशं दास्यति परं स न 15 भोत्स्यते, तदा कम्पितासनो वासवस्तत्र समागमिष्यति वृद्धविप्ररूपं च विधाय
कलङ्किसमीपं समागत्य तं कथयिष्यति हे पृथ्वीपते ! अत्र गोवाटकेऽकृतापराधा दयावार्द्धय एते साधवस्त्वया कस्मान्निरुद्धाः सन्ति ? तदा स कथयिष्यति सर्वधर्मसाधवो मह्यं करं ददति, परमेते मह्यं भिक्षाषष्ठांशमपि न वितरन्ति. ततो गोवाटके निरुद्धाः सन्ति । तदा त्रिदशपतिः कथयिष्यति भो भूमीपते ! त्यक्तधना अकिञ्चना 20 एते । तत एतेषां समीपात् तव किमपि न मिलिष्यति भिक्षाषष्ठांशदानव्यवहारा
भावाद् भिक्षाषष्ठांशमपि तुभ्यं न दास्यन्ति, त्वमपि साधूनां पार्वाद् भिक्षाषष्ठांशं मार्गयन् किं न लज्जसे त्वमेतान् साधून् मुञ्जाऽन्यथा त्वं महति कष्टे पतिष्यसीति सुरेन्द्रकथितं निशम्याऽपि स साधून मोक्ष्यति, तदा क्रुद्धो जिनमतभक्तो वासवो तं
कलङ्किन चपेटाप्रहारेण मारयिष्यति, षडशीतिसंवत्सरायुष्कः स मृत्वा नरकं 25 यास्यति, ततो स्वर्गाऽधिपः कलङ्किपुत्रं दत्तं जिनधर्मनिपुणं विधाय राज्ये च
स्थापयित्वा गुरुमुख्यसद्धं च प्रणम्य स्वावासं गमिष्यति । पश्चाद्दत्तनरपाल: स्वजनकपापस्याऽतिकटुफलं विज्ञाय धर्मकार्यातितत्परः पापकार्यातिभीरुः सन्
D:\chandan/new/kalp-2/pm5\3rd proof