SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ दीपालिकाव्याख्यानम् ॥ ] [ १८३ 5 समारोहणार्थं दृषन्मयोऽश्वश्च भविष्यति तस्य कटिप्रदेशे मृगलाञ्छन भास्करौ भविष्यतः एकोनविंशतितमसंवत्सरे प्रचण्डबलः स स्वभुजबलेन भरतार्द्ध साधयिष्यति सार्द्धविंशतितमे संवत्सरेऽर्बुदपृथ्वीपतेः कन्यां परिणीय स बह्वीः पृथ्वीनाथकुमारीः परिणेष्यति, ताभिः सह वैषयिकं सुखं भुञ्जानस्य तस्यऽनुक्रमेण दत्तविजयमुञ्जापराजिताभिधानाश्चत्वारो महापराक्रमवन्त आत्मजा भविष्यन्ति स अपरिमेयसुवर्णदानाद् विक्रमसंवत्सरं समुत्थाप्य स्वकीयसंवत्सरं प्रवर्तयिष्यति, तस्य रुद्रश्चतुर्मुखः कल्की कलङ्की चेति नामचतुष्टयं भविष्यति, तस्य राजधानीपाटलीपुरे भविष्यति, तस्य पुरस्य नृपनाम्नाऽपि प्रसिद्धिर्भविष्यति स स्वप्रथमसुतदत्ताय राजधानीकृते राजगृहं नगरं दास्यति, तस्य दत्तपुरं द्वितीयं नाम भविष्यति, द्वितीयसुतविजयाय च राजधानीकृतेऽणहिल्लपुरपत्तनं दास्यति, तस्याऽपरनाम 10 विजयपुरं भविष्यति, तृतीयपुत्रमुञ्जाय चाऽवन्तिदेशं दास्यति, चतुर्थपुत्राऽपराजिताय चाऽन्यदेशं दास्यति, कलङ्की यदा राज्यं करिष्यति, तदा म्लेच्छक्षत्रियाणां रुधिरेण धरित्री स्नानं करिष्यति तस्य कोशे नवनवतिसुवर्णकोट्यश्चतुर्दशसहस्रसंख्याश्च मतङ्गजा हस्तिन्यश्च सार्द्धचतुः शतप्रमाणाः सप्ताशीतिलक्षाश्च तुरङ्गमाः पञ्चकोटीमिताश्च पदातयोऽमेयाश्च दासदास्यो भविष्यन्ति । स स्वभावेन महाक्रूर : 15 कषाययुक्तश्च भविष्यति । स नन्दनृपकृतान् पञ्चसुवर्णस्तूपांल्लोकाननान्निशम्य खनयित्वा सुवर्णं ग्रहीष्यति, ततः प्रभूतलोभः स स्वपुरमपि परितः खनयित्वा निधानानि ग्रहीष्यति, तदा भूमध्याल्लवणदेव्यभिधा दृषन्मयीधेनुर्निर्यास्यति प्रभावयुक्तां तां धेनुं स चतुष्पथे स्थापयिष्यति, सा भिक्षाकृते भ्रमतो मुनीन् कदाचिच्शृङ्गाग्रैर्मारणार्थं प्रयत्नवती भविष्यति, तद् दृष्ट्वा गीतार्थमुनीन्द्रास्तस्मिन् 20 विषये विचारं कृत्वा ज्ञानेन वार्युपसर्गं ज्ञास्यन्ति, ततो ये संयमार्थिनो मुनयस्ते त्वन्यत्र विहरिष्यन्ति ये तु रसनेन्द्रियवशत्वेन सुन्दरान्नपानलुब्धास्ते तु गीतार्थैः प्रोक्ता अपि विहारं न विधास्यन्ति ततः सप्तदशवासरान् यावन्निरंतरं मेघो वर्षिष्यति तयाऽतिवर्षया कलङ्किनः पुरं वारिणा समाच्छादितं भावि तदा कलंकी नष्ट्वा कस्मिंश्चिदुच्चप्रदेशे स्थितिं करिष्यति, वारिपराभवेऽतीते स नूतनपुरस्य स्थापना 25 करिष्यति, पाथ:प्रवाहेण प्रादुः भूतान्नवनन्दनिर्मितान् सुवर्णाद्रीन् समालोक्य स प्रभूतार्थलुब्धो भावी, प्राग् यैः करं न दत्तं तेषां पाश्र्वात् करं ग्रहीष्यति यैश्च प्राग्दत्तं D:\chandan/new/kalp-2 / pm5\ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy