________________
१८२]
[ दीपालिकापर्वसंग्रहः ॥ सस्नेहं संमिल्य व्यवहरिष्यन्ति नीतिं सदाचारं च धारयिष्यन्ति । तन्निशम्य पुरो व्रजता महिपतिना राजहंसैः सेव्यमानं वायसं निरीक्ष्य पृष्टं तदा विप्राः प्रावदन् महीपते ! कलौ वायसतुल्या हीनकुलोत्पन्नाः पृथ्वीपतयो भविष्यन्ति राजहंसनिभाः सुकुलोत्पन्नास्तेषां सेवां करिष्यन्ति । पूनः कदाचित् पञ्चपाण्डवा अरण्ये स्थिता 5 बभूवुस्तदा युधिष्ठिरेण राज्ञा निशि क्रमेण चत्वारः सहोदरा यामिकत्वेन नियुक्ताः प्रथमे भीमो जागर्ति, युधिष्ठिरादयश्चत्वारः सहोदराः सुप्ताः सन्ति तस्मिन् काले प्रेतरूपधारकः कलिः प्रादुर्भूय भीमं प्रोवाच रे भीम ! त्वयि पश्यति ते सहोदरान् हन्मि तच्छ्रुत्वा क्रुद्धो भीमः प्रेतरूपभाजं कलिं हन्तुं दधावे द्वयोर्भयंकरं युद्धं सञ्जातं । तस्मिन् युद्धे बलिना कलिना बलवान् भीमो पराजित एवं द्वितीयप्रहरेऽर्जुनो 10 जितस्तृतीयप्रहरे नकुलो जितश्चतुर्थे यामे च सहदेवो जितस्ततो यामिनीशेषे प्राप्तपराजया युद्धश्रान्ताश्चत्वारोऽपि भ्रातरः सुप्ता युधिष्ठिरश्च निद्रां त्यक्त्वोत्थितस्तदा पिशाचरूपधरः कलिर्युधिष्ठिरमपि त्वत्पुरस्ते सहोदरान् हन्मीत्यवोचत् तदाकर्ण्य युधिष्ठिरो न चुकोप न च परुषाक्षरं प्रत्यभाषत किन्तु सर्वार्थसाधनीं क्षमामङ्गीचकार, तं तथोपशमवन्तं विलोक्य प्रशान्तमनाः कलिस्तस्य मुष्टौ समायातस्ततो युधिष्ठिरेण 15 जागरितानां स्वसहोदराणां पुरो निशाव्यतिकरं प्रोक्तं क्षमागुणेन च वशीभूतः कलिर्दर्शितः एतादृशा अष्टाधिकशतदृष्टान्ता लोकिकपुराणादिग्रन्थेषु कलियुगवर्णनप्रस्तावे प्रोक्ताः सन्ति ।
पुनरस्मिन् पञ्चमारके महाक्रूर : कलङ्की नृपो भविष्यति, तस्य वृत्तान्त एवंपाटलीपुरपत्तने म्लेछ्कुले जसनाम्नश्चण्डालस्य यशोदानाम्न्याः पत्न्याः कुक्षौ 20 त्रयोदशमासान् यावत् स्थित्वा चैत्रश्वेताष्टम्यां जयश्रीदिने कुजवासरे निशि मकर - लग्नषष्ठांशे कर्कस्थशशिनि चन्द्रयोगेऽश्लेषाद्यपादे कलङ्किजन्म भविष्यति, पंचमे संवत्सरे तस्य जट्ठरे महती पीडा भाविनी सप्तमाब्दे स हुतभूजापदि पतिष्यत्येकादशे वत्सरे तस्य वित्तलाभो भाव्यष्टादशे संवत्सरे कार्तिकश्वेतप्रतिपदौ शनिवासरे तुलाशीतरश्मौ स्वातिभे नन्दिदिवसे सिद्धयोगे बवकरणे रावणाभिधमुहूर्ते तस्य 25 राज्याभिषेको भावी स त्रिकरोन्नतशरीरः कपिलकेशनयनस्तीक्ष्णस्वरो महाविद्याप्राप्तिगर्वितो दीर्घहृदयो गुणविकलश्च भविष्यति, तस्याऽदन्ताभिधो वाजिर्दुर्वासकाभिधः कुन्तो दैत्यसूदनाह्वं खङ्गं मृङ्गांकाह्वयो मुकुटो नभः खेलाभिधं त्रिशूलं
D:\chandan/new/kalp-2/pm5\3rd proof