SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ दीपालिकाव्याख्यानम् ॥ ] [ १८१ कूपमध्ये पतन्निरीक्षितं ततस्तद्विषये पृष्टा भूदेवाः प्रोचुरिलापतेऽन्ययुगेषु प्रजापतयो भूरि स्वधनं दत्त्वा प्रजाः स्वसन्ततिवत्पालयामासुः परमस्मिन् कलियुगे तु लोकैर्भूरिक्लेशैरुपार्जितं सर्वं धनं धरापतयो ग्रहीष्यन्ति लोकांश्च दरिद्रान् करिष्यन्ति । तन्निशम्य पुरो याता युधिष्ठिरवसुधाधवेन वनैकदेशे शाखाप्रशाखापत्रपुष्पादिशोभितश्चम्पकवृक्षस्तत्समीपस्थश्च शमीवृक्षः समालोकितस्तत्र शमीवृक्षस्य सुगन्धि - 5 पुष्पविलेपनगीतनृत्यादिभिर्जना: पूजनं कुर्वन्ति परं सुच्छत्राकारस्य चम्पकवृक्षस्य जना: पूजनं न कुर्वन्ति, तद् दृष्ट्वा विस्मितेन भूपेन तद्विषये पृष्टा विप्रा अब्रुवन्भूपेन्द्र ! कलौ सदाचारवतां गुणवतां च पूजा न भविष्यति, परं दुराचारवतां पापिष्ठानां दुर्जनानां च पूजासम्पदौ भविष्यतः । तन्निशम्याऽग्रे गच्छता युधिष्ठिरेण भूभर्त्रा वालाग्रबद्धा वियति लम्बमानैका महती शिला वीक्षिता ततस्तद्विषये पृष्टा द्विजा 10 अकथयन् विश्वम्भरापते ! कलिकाले पापशिलाभराक्रान्तोऽपि जनोऽल्पधर्मकेशाग्रनौकालम्बनेन कष्टसमुद्रं तरिष्यति, यदा चाऽल्पधर्मकेशाग्रनौकाभेदं प्राप्स्यति, तदा जीवा समकालमेव ब्रुडिष्यन्ति दुःखिनश्च भविष्यन्ति । तन्निशम्य पुरो व्रजता युधिष्ठिरेण भूस्वामिना फलार्थं पादपस्य पीडां वीदधाना जना वीक्षितास्ततस्तद्विषये पृष्टा विप्राः प्रोचुर्नरपते ! कलौ फलतुल्यसुतार्थं पादपतुल्यो जनको बहु सहिष्यति । 15 तन्निशम्याऽग्रे चलता क्ष्मानाथेन श्रेष्ठाऽन्नपचनार्हे काञ्चनकटाहे पिशितपाको निरीक्षितस्ततस्तद्विषये पृष्टा ब्राह्मणा जगुर्नरनाथ ! कलौ सुकुलोत्पन्नानां हृदयरूपस्वर्णकटाहे मलीनतारूपमांसं वासं करिष्यति, तस्मात् कुलीना अपि स्वोपकारिणामुपकारं विस्मृत्य तांश्च त्यक्ष्यन्त्यन्यजनानां कृते च स्वमूर्द्धानमपि समर्पयिष्यन्ति तैः सह प्रीतिं भक्ति च करिष्यन्ति । तन्निशम्याऽग्रे याता भूभृता विषधराच कुर्वन्तो 20 गरुडार्चां चाऽकुर्वन्तो जना विलोकितास्ततस्तद्विषये पृष्टा द्विजाः प्रोचुः कलौ पन्नगसदृशक्रूरजनेषु निर्दयधर्मेषु च पूजासत्कारौ भविष्यतः, परं सुपर्णसमानगुणसत्क्रियाधर्मयुतजनेषु दयायुतधर्मेषु च पूजासत्कारौ न भविष्यतः । तन्निशम्याऽग्रे चलता पृथ्वीजानिनैकं शकटं वहन्तौ गजौ परस्परमसंमिल्य चलन्तौ वीक्षितौ तथैवैकं शकटं वहन्तौ रासभौ परस्परं संमिल्य चलन्तौ निभालितौ ततस्तद्विषये पृष्टा विप्रा 25 अवोचन् पृथ्वीभर्तः ! कलौ मतङ्गजसदृशाः सुकुलोत्पन्ना नराः परस्परं कलहं करिष्यन्ति संमिल्य च न व्यवहरिष्यन्ति, खरतुल्याश्च हीनकुलोद्भवा मनुजाः परस्परं D:\chandan/new/ kalp -2 / pm 5 \ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy