________________
१८०]
[ दीपालिकापर्वसंग्रहः ॥ मुर्च्छावन्तो भविष्यन्ति, तदर्थं च साधु श्रावकैः सह कलहं करिष्यन्ति, ज्ञानदर्शनचारित्रार्जनशिथिलाश्च भविष्यन्ति, यशोवृत्त्यादिकृते च मन्त्रतन्त्रयन्त्रशास्त्रादिपठनं करिष्यन्ति, स्तोका एव सुश्रमणा भविष्यन्ति, लोका धर्मकार्येऽपि शाठ्यं करिष्यन्ति, यदा कोऽपि दृक्ष्यति तदा शोभनां धर्मक्रियां करिष्यन्ति यदा कोऽपि न दृक्ष्यति 5 तदाऽविधिना करिष्यन्त्येवं धर्मक्रियायामपि कापट्यं भविष्यति, निःसङ्गेषु वैराग्यं न स्थास्यति, ज्ञानविद्याधनरूपबलसौभाग्ययश: कीर्तिगुणपराक्रमधीरत्वसंहननायुर्मन्त्रतन्त्रयन्त्रौषधिफलपुष्परसदानशीलतपो भावादिभावानां क्रमेण हानिर्भविष्यति, महानगराणि ग्रामतुल्यानि भविष्यन्ति, ग्रामाश्च श्मशानतुल्या भयप्रदा भविष्यन्ति, दयासत्यास्तेयब्रह्मचर्यनिर्लोभताक्षमामृदुतार्जवतादिशुभभावनामपि क्रमेण हानि10 र्भविष्यति, पञ्चमकाले यस्य शुभमतिः परोपकारकरणपरता धर्मकरणदृढता सदा धर्मार्थं धनबुद्धिवचनशक्त्यादीनां च व्ययो भविष्यति, स एव धन्यः कृतकृत्यो नान्योऽतो दानशीलतपोभावस्वरूपवीतरागोक्तधर्मकरणे सदा मतिः कार्या ।
लोकिका अपि कलियुगव्यपदेशेन पञ्चमारकस्य स्वरूपमेवं कथयन्तिद्वापराभिधानयुगे युधिष्ठिरनृपालो बभूव । स कदाचिदरण्येऽगच्छत् तत्र तेनैका 15 गौर्वत्सायाः स्तन्यपानं विदधाना समालोकिता तदा सञ्जातविस्मयेन तेन किमिदमाश्चर्यमिति पृष्टा विप्रा जगुर्हे धरापाल ! आगामिकलियुगे दुःस्थाः शक्तिवर्जिता धनलुब्धा जननीजनका लक्ष्मीवद्द्भ्यो स्वकन्या दत्त्वा तेभ्यो धनं गृहीत्वा स्वनिर्वाहं करिष्यन्ति, तन्निशम्याऽग्रे चलता युधिष्ठिरेण समश्रेणिश्रितानि वारिपूर्णानि त्रीणि सरांसि निरीक्षितानि तत्रादिमसरसो वार्युच्छलन्मध्यसरस्त्यक्त्वा तृतीयसरसि पतति 20 मध्यसरसि बिन्दुमात्रमपि न पतति तन्निरीक्ष्य विस्मयवान्धरित्रीनाथस्तस्मिन्विषये द्विजान् पप्रच्छ, तेऽपि विचार्य जगदुः - प्रजापाल ! यथा समीपसरस्त्यक्त्वा तृतीयसरसि पयोगतं तथा कलौ नरा निजान् समीपस्थांश्च त्यक्त्वाऽन्यैर्दूरस्थैः सह प्रीतिं करिष्यन्ति । तन्निशम्य पुनरग्रे गच्छता युधिष्ठिरभूपतिना वारिक्लिन्नवालुकाया महाक्लेशेन जनैः कृता रज्जवस्तत्कालं पवनैर्भग्नःसमालोकितास्ततस्तस्मिन्विषये 25 पृष्टा ब्राह्मणाः कथयामासुः क्ष्मापते ! कलौ लोकाः कृष्यादिमहाक्लेशैर्यत्किञ्चिदपि वित्तमुपार्जयिष्यन्ति तद्वित्तं जनैः प्रयत्नेन रक्ष्यमाणमपि चौरदायादाग्निभूपदण्डकरादिभिर्नाशं यास्यति । तन्निशम्य पुरो व्रजता युधिष्ठिरजगतीपतिनाऽवाहजलं
D:\chandan/new/kalp-2 / pm5\ 3rd proof