________________
दीपालिकाव्याख्यानम् ॥]
[१७९ तदा कुमारपालोऽपि तावत्प्रमाणं ग्रामादिकं प्रतिमापूजार्थं प्रदास्यति, तस्य नृपस्यैकादशशतानि गजेन्द्रा दशसहस्रप्रमाणाश्च रथा एकादशलक्षप्रमाणाश्च वाजयोऽष्टादशलक्षप्रमाणाश्च पत्तयो भविष्यन्ति । स वर्षाकाले युद्धनियमं करिष्यति स्वदारसन्तोषी स शीलस्य मनसाऽपि भङ्गे सत्युपवासेन शुद्धिं करिष्यति, पुत्रविकलायाश्चाबलाया धनं न ग्रहिष्यति, स महान् जिनागमप्रचारको जिनशासन- 5 प्रभावको भूपालो भविष्यति । पुनः पञ्चमारकानुभावतो लोकाः प्रायेण निर्मर्यादा निर्लज्जा धर्मबुद्धिहीना वक्रा मूर्खाः परोपकारविकलाः कलहकरा अनीतिपरा निर्दया धर्मकार्येऽलसाः पापकार्येऽत्यादरवन्तः परदुःखदानपरा मिथ्यामतयो निःसन्तोषा अक्षमावन्तो मानिनो मायाविनो हिंसारताः सत्यवर्जिताः परद्रव्यग्रहणबुद्धयः शीलवजिताः परनिन्दापरा आत्मश्लाघाकराः पापवचन श्रवणपरा धर्मवचन- 10 श्रवणेऽरुचयो विवेकविकला दारिद्र्ययुताः स्वजनस्नेहवर्जिताः परजनप्रीतिकराश्च भविष्यन्ति । पृथ्वीपाला विविधदण्डैदण्डयित्वा जनानां धनं हरिष्यन्ति, राजपुरुषा अपि लोकान् धनार्थं पीडयिष्यन्ति, चौराश्चौर्येण भूपाला नवीनकरैरग्नयो दहनैर्व्यवहारिणश्च विशेषं गृहीत्वा स्तोकदानेन लोकान् दरिद्रयिष्यन्ति, धेन्वादिप्राणिनां वधो देवमन्दिराणां पातनं मनुष्यमुण्डकरश्च दण्डो भविष्यति, देशभङ्गदुर्भिक्ष- 15 डमरमरक्यादिभिर्लण्टनपरहट्टश्रेणिभिर्लञ्चालुब्धनियोगिभिश्च जना बहुदुःखिनो भविष्यन्ति, दानबुद्धयो दरिद्रा धनवन्तश्च कृपणमुख्या भविष्यन्ति, पापिनश्चिरजीविनो धर्मिणश्च स्वल्पायुष्का भविष्यन्ति, भूपतयो हीनकुला भूपसेवकाश्चोत्तमकुला भविष्यन्ति, बहवः पाखण्डिनो विप्रतारकाश्च भविष्यन्ति सुकुलोद्भवा अपि स्त्रियो वेश्यासदृश्यो दुश्चारिण्यो भविष्यन्ति, देवदर्शनं जातिस्मरणज्ञानं च न भविष्यति, 20 लोका देवगुरुधर्मद्रव्यभक्षणबुद्धयस्तेषां निन्दोड्डाहपराश्च भविष्यन्ति, बालास्तरुणाश्च सुता मरिष्यन्ति, पितरश्च सुदीर्घायुष्का भविष्यन्ति, विप्रा वेदपाठषट्कर्मवर्जिताः कृषिकराः शस्त्रधराश्च भविष्यन्ति, सुता मातृपितॄणामविनयं करिष्यन्ति, तेषां वचनकराश्च न भविष्यन्ति, परं दुःखदायका भविष्यन्ति, विनयोज्जिताः स्नुषाः श्वश्रूणां प्रत्युत्तरं दास्यन्ति, ताभिः शिक्षावचने कार्ये च कथिते नागिनीवद् रोषं कृत्वा 25 कलहं करिष्यन्ति, श्वश्वोऽपि पिशाचिनीसदृशीभूता वधूविडम्बयिष्यन्ति, शिष्या गूरूणां संमुखं वक्ष्यन्ति, गुरुभिर्दत्तां शिक्षा न गणयिष्यन्ति, साधवो वस्त्रपात्रादिषु
D:\chandan/new/kalp-2/pm5\3rd proof