SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १७८] [ दीपालिकापर्वसंग्रहः ॥ प्रवर्तयिष्यति, गुणलब्धपरदुःखभञ्जनपरस्त्रीसहोदराभिधानद्वयः स नृधवो न्यायेन स्वसन्ततिवत्प्रजाः पालयिष्यति, ततोमन्निर्वाणाच्चतुरशित्यधिकपञ्चशतसंवत्सरेऽतीते वज्रसूरौ दिवङ्गते दशमपूर्वार्द्धस्य विच्छेदो भावी, ततो मम निर्वाणात् पञ्चाभ्यधिकषट्शतसंवत्सरे स्वसंवत्सरप्रवर्तकः शालिवाहनो भूधवो भावी, ततो मन्मोक्षतो नवाधिकषट्शताब्दे रथनूपुरनगरे दिगम्बरमतोत्पत्तिर्भविष्यति, षोडशाधिकषट्शतवर्षे च पुष्पमित्राचार्येण सह सार्द्धनवपूर्वाणि विच्छेदं यास्यन्ति, विंशत्यधिकषट्शताब्दे च सूरिवरादयो ग्राममध्ये वसतिं विधास्यन्ति, त्रिनवत्यधिकनवशतवत्सरे च कालिकसूरिभविष्यति, स कारणात् पर्युषणपर्व पञ्चम्यामकृत्वा चतुर्थ्यां करिष्यति, ततः कारणे गतेऽपि केचिदाचार्यादयो दुःषमकालानुभावात् 10 पर्युषणपर्वचतुर्थ्यां करिष्यन्ति, ततो मम निर्वृतेः पञ्चपञ्चाशदधिकदशशतसंवत्सरे बहुग्रन्थकर्ता हरिभद्रसूरिर्भावी सप्तत्यभ्यधिकद्वादशशताब्दे चाऽऽमराजा भविष्यति, स विद्याशास्त्रपारीणो बप्पभट्ट्यभिधानसूर्युपदेशाद् गोपगिरौ जिनमन्दिरं कारयित्वा तत्र सार्द्धत्रिकोटीहेममयी मदीया प्रतिमा स्थापयिष्यति, ततो मम मोक्षात् त्रयोदश शताब्दे दुःषमाऽद्धानुभावात् साधवः परस्परं वादं कलहं च करिष्यन्ति, ततो 15 स्वस्वमताग्रहेण बहुगच्छमतभेदा भविष्यन्ति, केचिच्च ज्ञानतपः-क्रियादिधर्मकार्ये सुदृढाः केचिच्च श्लथा भविष्यन्ति, स्वगुणमतप्रशंसाकराः परगुणमतदोषारोपणनिन्दापराश्च भविष्यन्ति, पुनर्मम निर्वाणादेकोनसप्तत्यधिकषोडशशतसंवत्सरेऽतीतेऽणहिल्लपुरपाटणे कुमारपालो धराधवो भविष्यति, बहुग्रन्थनिर्मातृहेमचन्द्र सूरिप्रतिबोधितः स्वीकृतसम्यक्त्वद्वादशव्रतोऽसामान्यदानदयासत्यविनयविवेक20 विज्ञानधैर्यनयगुणानुरागादिगुणालङ्कृतो महापराक्रमी स भूमीपतिः स्वभुजबलेना ऽऽयवनदेशमुत्तरदिशमागंगं पूर्वदिशमाविन्ध्याचलं दक्षिणदिशमासमुद्रं च पश्चिमदिशं साधयिष्यति, भक्तिशक्तिधनैश्चाऽद्वितीयदयाप्रचारं करिष्यति, जिनप्रासादैश्च मेदिनी भूषयिष्यति, सुदेवगुरुधर्मतत्त्वज्ञः स देवानपूजयित्वा गुरूनवन्दित्वा च भोजनं न करिष्यति । कदाचिद्धेमसूरिवरोपदेशाज्जीवत्स्वामिप्रतिमायाः संबन्धं निशम्य स 25 स्वाप्तजनैर्वीतभयपत्तनधूलिदुर्गं खानयित्वा प्रतिमां प्रादुष्कारयिष्यति, ततो महोत्सवेन स्वनगरमध्ये वर्यप्रासादे स्थापयित्वा निरन्तरं बहुभावेन पूजयिष्यति, ततः प्रतिमापूजार्थं यदुदायिधरापतिना ग्रामादिकं प्रदत्तं बभूव तदपि प्रकटं भविष्यति, D:\chandan/new/kalp-2/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy