________________
दीपालिकाव्याख्यानम् ॥]
[१७७ अथ प्रागुक्तमष्टस्वप्नफलं निशम्य श्रीप्रथमगणधरो विस्मितहृदयः सन् भगवन्तमपृच्छद् भगवन् ! भविष्यत्काले किं किं भविष्यति तदा केवलज्ञानज्ञातसर्वभावो भगवान् प्राह-गौतम ! मम मोक्षात् सार्धाष्टमासाधिकत्रिवर्षेऽतीते पञ्चमारकप्रारम्भो भविष्यति ततो मदीयमोक्षाद् द्वादशसंवत्सरेऽतीते त्वं मोक्षं गमिष्यसि विंशतिसंवत्सरे च व्यतीते सुधर्मा शिवङ्गमी चतुष्षष्टिवत्सरे च 5 व्यतिक्रान्ते जम्बूनिवृतिं यास्यति । तदाऽऽहारकशरीर-मन:पर्यवज्ञान-पुलाकलब्धिपरमावधिज्ञान-क्षपक श्रेण्युपशमश्रेणि-केवलज्ञान-सिद्धिगति-जिनकल्पचारित्रत्रिकान्येतानि दशवस्तूनि विच्छेदं गमिष्यन्ति, ततस्तृतीयपट्टधरश्चतुर्दशपूर्वधारी जम्बूशिष्यः प्रभवसूरिर्भविष्यति, ततश्चतुर्थपट्टधरश्चतुर्दशपूर्वधरो दशवैकालिकसूत्रकारः शय्यम्भवसूरिभविष्यति, ततः पञ्चमपट्टधरश्चतुर्दशपूर्वधरो यशोभद्रसूरि- 10 भविष्यति, तदन्तेवासिनौ क्रमेण षष्टसप्तमपट्टधरौ चतुर्दशपूर्वधरौ सम्भूतिभद्रबाहुनामानौ सूरी भविष्यतस्ततश्चतुर्दशपूर्वधरः सम्भूतिविनेयोऽष्टमपट्टधरस्थूलभद्रसूरिर्भविष्यति । मम निर्वृत्तितः पञ्चदशाधिकद्विशत(२१५)संवत्सरे तस्मिन् स्थूलभद्रसूरौ स्वर्गं याते प्राक्संहनन-संस्थान-चतुष्पूर्वी-सूक्ष्ममहाप्राणध्यानान्येतानि वस्तूनि विच्छेदं प्राप्स्यन्ति, मम मोक्षतस्त्रिशतसंवत्सर उज्जयिन्यां 15 पूर्यां सम्प्रतिनामा पृथ्वीपतिर्भविष्यति । स श्रीमदार्यसुहस्तिसूर्युपदेशाज्जातिस्मृति प्राप्य जैनधर्ममंगीकरिष्यति । स्वदोर्बलाच्चत्रिखण्डपृथ्वीं साधयिष्यति ज्ञानी दानी न्यायी विनयी पराक्रमी धर्मी च स नृपः पुत्रवत्प्रजाः पालयिष्यति । पुनः स नृपालो जिनप्रासादैरलङ्कारैः शरीरमिव महीं भूषयिष्यति । जनोपकारार्थं च ससम्यक्त्वश्रावकाचारोपदेशप्रचारदक्षैजिनागमज्ञानविचक्षणैः सुदृढजिनधर्मश्रद्धैः स्वकीयपुरुषैर- 20 नार्यदेशेष्वनार्यलोकान् सुश्रावकान् कारयिष्यति, ततोऽनार्यदेशेषु गीतार्थानां विहारं कारयित्वा तत्र जिनधर्मोद्योतं कारयिष्यत्येवं सर्वदेशेषु भक्तिशक्तिवित्तैः श्रीजिनधर्म प्रवर्त्य सम्यगाराधितश्रावकाचारः स नृपो नाकं गमिष्यति, ततो मम निर्वाणात् सप्ततियुते चतुःशतसंवत्सरे गते तत्रैव नगर्यां विक्रमार्कनृपो भविष्यति श्रीसिद्धसेनसूर्युपदेशात् प्राप्तसम्यक्त्वश्राद्धधर्मः सिद्धविद्यामन्त्रसुवर्णपुरुषः सत्त्वसिद्धाग्नि- 25 वैतालादिदेवतो धैर्यशौर्यदानादिगुणप्रख्यातः स प्रतिपदं देवमनुष्येभ्यः प्रशंसासन्मानादिकं प्राप्स्यति, धनदानैश्च सकलां पृथ्वीमनृणां कृत्वा स्वसंवत्सरं
D:\chandan/new/kalp-2/pm5\3rd proof