SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १७६] [ दीपालिकापर्वसंग्रहः ॥ बहूनि सूत्राणि विच्छेदं गमिष्यन्ति, तदा केचिद् निःसत्त्वा साधवो देवधनधारका भविष्यन्ति, ये तु सुसंयमवाञ्छका धीराः साधवस्ते तु दक्षिणाशायां वलभ्यां व्रजिष्यन्ति । षष्टे स्वप्ने यत्त्वया विमानं समालोकितं तस्माद् विद्याचारणजङ्घाचारणमुनयोऽत्र नायास्यन्ति । सप्तमे स्वप्ने यत्त्वयाऽवकरे पद्मोत्पत्तिरालोकिता तस्माच्चतुर्वर्णानां मध्ये जिनधर्मो वैश्यवर्णे स्थास्यति, सूत्रश्रवणाध्ययनरुचिश्च स्तोकजनानां भविष्यति, मिथ्याधर्मसंसारवृद्धिकरग्रन्थश्रवणाध्ययनप्रियतां च बहुजनानां भविष्यति । अष्टमस्वप्ने यत्त्वया खद्योत उद्योतं कुर्वन्निरीक्षितस्तस्माद् मिथ्याधर्मो बहुजनैः पूजितः सत्कारितो भविष्यति, परं जिनधर्मस्य बहुपूजा सत्कारादि न भविष्यति । नवमस्वप्ने यत्त्वया महासरोवरं शुष्कं विलोकितं तस्माद्यत्र 10 यत्र भूम्यां श्रीजिनेश्वराणां कल्याणकानि सन्ति सा भूमी धर्मिजनविकला भविष्यति । दशमे स्वप्ने यत्त्वया हेमपात्रे पायसं भक्षयन् सारमेयो वीक्षितस्तस्मादुत्तमाश्री_नकुले यास्यति । एकादशे स्वप्ने यत्त्वया वानरोऽरण्यचर: करीन्द्रोपविष्टो विलोकितस्तस्माद् दुर्जनाः सुखस्थिता भविष्यन्तीक्ष्वाकुवंशजाद्युत्तमकुलप्रसूतानां च प्रतिदिनं हानिर्भाविनी । द्वादशे स्वप्ने यत्त्वं मर्यादां मुञ्चन्तं रत्नाकरं दृष्टवान् तस्मात् पृथ्वीपाला 15 अन्यायं करिष्यन्ति. क्षत्रियाश्चोत्पथं गमिष्यन्ति. कलीनाश्च निर्मर्यादा भविष्यन्ति । त्रयोदशे स्वप्ने यत्त्वं महारथवाहकान् वत्सान् निरीक्षितवान् तस्माद् महारथनिभमहाव्रतान् वोढुं प्रौढवयसो वृद्धाश्च नोत्सहिष्यन्ति, किन्तु वत्ससदृशा लघुवयसो महाव्रतमहारथान् वोक्ष्यन्ति, केचिद् वैराग्यभावपूर्वकं च संयमं गृहीत्वा प्रमादयुक्ता भविष्यन्ति । चतुर्दशे स्वप्ने यत्त्वं महायं रत्नं तेजोहीनमपश्यस्तस्मात्तपोलब्धि20 जातिस्मरणज्ञानादितेजोहीनो जिनधर्मो भविष्यति मुनयश्च निरतिचारचारित्रतेजोहीना असमाधिकरा भविष्यन्ति सुसाधवश्च स्तोका एव भविष्यन्ति । पञ्चदशस्वप्ने यत्त्वं भूपतितनुजं बलिवर्दारूढं समालोकितवान् तस्मादिक्ष्वाकुवंशादिश्रेष्ठवंशीया मिथ्यादर्शनसेवनतत्परा भविष्यन्ति न तु जिनधर्मं सेविष्यन्ति । षोडशे स्वप्ने यत्त्वं मतङ्गजकलभयुग्मं युद्धं कुर्वद् दृष्टवान् तस्मात् साधवः परस्परं स्नेहहीना मत्सरिणः 25 प्रत्यहं कलहं करिष्यन्ति, न च गुरुसेवापरा गुर्वाज्ञाकराश्च भविष्यन्ति । एवं श्रीभद्रबाहुस्वामिकथितस्वप्नफलं निशम्य चन्द्रगुप्तधरापोऽनशनं स्वीकृत्य धर्मध्यानपूर्वकं देवलोकं ययौ । इति षोडशस्वप्नवृत्तान्तः प्रोक्तः । D:\chandan/new/kalp-2/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy