SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १८६] [दीपालिकापर्वसंग्रहः ॥ पञ्चमारकान्ते दुःप्रसहाख्यो युगप्रधानसूरिः फल्गुश्रीनाम्नी साध्वी नायलाभिधानः श्रावकः सत्यश्रीनाम्नी श्राविकैवंविधः श्रीचतुर्विधसङ्घो जिनधर्मश्च पूर्वाह्ने क्षयं गमिष्यति, विमलवाहनाभिधश्च पृथ्वीपालः सुमुखाभिधश्च सचिवो मध्याह्ने क्षयं गमिष्यति, वह्निश्च सन्ध्याकाले क्षयं गमिष्यत्येवं पञ्चमारक एकविंशतिसहस्रसंवत्सरप्रमाणो भविष्यति । षष्ठारकस्याऽप्येतावदेवप्रमाणं भविष्यति । अथ षष्ठारके प्रभूतपांसुयुक्ताः परुषस्पर्शा वायवो वास्यन्ति, भास्करोऽत्युग्रतापो हिमांशुश्चातिशीतदो भविष्यति, प्रचण्डतापशीताभ्यां लोकानां नाशो भविष्यति, भस्मदृशद्वह्निकणक्षारविषविद्युन्मलमयाः सप्तजलदाः पृथक्पृथक्सप्तसप्तवासराणि यावद् वर्षिष्यन्ति यदुद्भूतकासश्वासज्वरजलोदरकुष्ठादिमहारोगैः पीडिता जनाः क्षयं 10 यास्यन्ति, पृथ्वीभस्माङ्गारतुल्या भविष्यति पर्वतसरिद्गर्तादिकं सर्वं सदृग् भविष्यति ये केचित् स्तोकाः पशुमनुष्या जीवन्तः स्थास्यन्ति ते वैताढ्यपर्वतमूले तस्यैव द्वासप्ततिबिलेषु गङ्गासिन्धुबिलेषु च दुःखेन स्थास्यन्ति तदा गङ्गासिन्धुनदीप्रवाहे रथचक्रमध्यभूमीप्रमाणे स्थास्यतः तज्जलं मत्स्यादिजन्तुबहुलं भविष्यति । बिलस्थमनुष्या निशि नदीजलस्थमत्स्यादीनि गृहीत्वा स्थले मोक्षयन्ति । तानि दिवसे भास्कराति15 तापपक्वानि भविष्यन्ति, रात्रौ तेषां भोजनं करिष्यन्त्येवंविधस्तेषामशनव्यवहारो भविष्यति । तदा पुरुषा नार्यश्चैकहस्तप्रमाणदेहा निर्वसना निर्लज्जाः कठोरशरीरा अश्लाध्यवर्णाः परुषवाचो रोगपीडिता महाक्रोधवन्तो भविष्यन्ति । पुरुषा विंशतिसंवत्सरायुष्का महिलाश्च षोडशाब्दायुष्का भविष्यन्ति । षडब्दायुष्का नितम्बिन्यो गर्भ धारयिष्यन्ति, दुष्प्रसूतयश्च भविष्यन्ति, पुनः पुत्रपौत्रादीनां दृष्टारो जनकजननी20 विवेकरहिता मांसाशनरता निर्दया मनुष्या भविष्यन्ति । सूर्यासह्यप्रचण्डतापात् ते दिवा बिलेष्वेव स्थास्यन्ति, तदा सर्पिदध्यादिकुसुमफलधान्यान्नादिशय्यासनादीनि वस्तूनि न भविष्यन्तीत्यादिकमेकविंशतिसहस्रसंवत्सरप्रमाणे षष्ठारके भविष्यति । ____ अथोत्सर्पिण्यां षष्ठारकतुल्य एकविंशत्यब्दसहस्रप्रमाणे प्रथमारकेऽतीते तावत् प्रमाण एव द्वितीयारकः समायास्यति तस्मिन्नायाते क्रमादमी पञ्चपयोदाः सप्त25 सप्तदिवसानि यावद्वर्षिष्यन्ति पृथ्वीतापहर: पुष्करावर्तः, शस्योत्पत्तिकरः क्षीरोदकः, स्नेहकरो घृतदक, ओषध्युत्पत्तिकर: शुद्धोदका, रसोत्पत्तिकरश्च रसोदक इत्येवंविधपञ्चत्रिंशदिवसवृष्ट्यनन्तरं शस्यवल्लीवृक्षौषधियुक्ता भूमी भविष्यति, ततो D:\chandan/new/kalp-2/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy