Book Title: Dharmopadesh Sangraha Author(s): Shrutdhar Purvacharya Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala View full book textPage 8
________________ ॥२॥ KARNAKARSASAKSex अस्मिन्नसारसंसारे सर्वेऽपि जन्तवः पाणिनः निस्तुषं सुखमिच्छन्ति तत्सुखं शिव मोक्षे भवेत् , स मोक्ष: शुभध्यानास्प्राप्यते, ध्यानं च मनःशुद्धथा भवति, सा मनःशुद्धिः कषायविजयेन भवति, सः कषायविजयः इन्द्रिजयेन स्यात् , स इन्द्रियजयः सदाचारात् भवति असौ सदाचार. गुणनिबन्धनं नृणां सदुपदेशात् जायते ॥ १. संसारे दुःखं मोक्षे च सुखं तत्र तावत् संसारस्वरूपमाहआधिव्याधिजरामृत्युज्वालाशतसमाकुलः । मदीप्ताङ्गारकल्पोऽयं, संसारः सर्वदेहिनाम् ॥ १ ॥ न युज्यते तद् विदुषा, प्रमादोऽत्र मनागपि । कः प्रमाद्यति बालोऽपि, निशोल्लध्ये मरुस्थले १ ॥२॥ संसाराब्धाविहाऽनेकयोन्यावर्ताकुले जनः । दुर्लभं मानुषं जन्म, महारत्नमिवोत्तमम् ॥३॥ परलोकसाधनेन, मानुष्यमपि देहिनाम् । पादपो दोहदेनेव, सफलीभवति ध्रुवम् ॥ ४ ॥ आपातमात्रमधुराः, परिणामेऽतिदारुणाः । शठवाच इवाऽत्यन्तं, विषया विश्ववश्वकाः ॥ ५॥ पदार्थानामशेषाणां, संसारोदरवर्तिनाम् । *संयोगा विप्रयोगान्ताः, पतनान्ता इवोच्छ्याः ॥६॥ आयुर्धनं यौवनं च, स्पर्द्धयेव परस्परम् । सत्वरं गत्तराण्येव, संसारेऽस्मिन् शरीरिणाम् ॥ ७॥ संसारस्याऽस्य गतिषु, चतसृष्वपि जातुचित् । नाऽस्त्येव सुखलेशोऽपि, स्वादु नीरं मराविव ॥८॥ * संयोगः स्युर्वियोगान्ताः सं १॥+ अय श्लोकः पा. पुस्तके न दृश्यते ॥ १ जन्तोः ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 102