Book Title: Dharm Sangrahani Part 02
Author(s): Ajitshekharsuri
Publisher: Adinath Jain Shwetambar Jain Mandir Trust

Previous | Next

Page 26
________________ (१) श्रीमदभयदेवसूरयः पञ्चाशकटीका"प्रान्ते- “समाप्ता चेयं शिष्यहिता नामा सितपटपटलप्रधानप्रावचनिकपुरुषप्रवरचतुर्दशशतसंख्याप्रकरणप्रबन्धप्रणायिसुगृहीतनामधेयश्रीहरिभद्रसूरिविरचितपञ्चाशकाख्यप्रकरणटीकेति ।" (२) मुनिचन्द्रसूरय उपदेशपदटी कायाम्-"महत् प्रवचनवात्सल्यमवलम्बमानश्चतुर्दश प्रकरणशतानि चकार" इति । (३) वादिदेवसूरयः स्याद्वादरत्नाकरे" - "प्रकरणचतुर्दशशतीसमुत्तुङ्गप्रासादपरम्परासूत्रणैकसूत्रधारैरगाधसंसारवारिधिनिमज्जज्जन्तुजातसमुत्तारणप्रवणप्रधानधर्मप्रवहणप्रवर्तनकर्णधारैर्भगवतीर्थकरप्रवचनाऽवितथतत्त्वप्रबोधप्रसूतप्रवरप्रज्ञाप्रकाशतिरस्कृतसमस्ततीर्थिकचक्रप्रवादध्वान्तप्रचारैः प्रस्तुतनिरतिशयस्याद्वादविचारैः श्रीहरिभद्रसूरिभिः" (४) मुनिरत्नसूरयोऽममस्वामिचरित्रमहाकाव्ये प्रथमसर्गे - _ "स्तामि श्रीहरिभद्रं तं येनार्हगीमहत्तरा । चतुर्दशप्रकरणशत्याऽगोप्यत मातृवत् ॥९९॥" (५) जिनदत्तसूरयो गणधरसार्धशतके - "चउदससयपगरणगोनिरुद्धदोसो सया हयपओसो । हरिभद्दो हरिअतमो हरि व जाओ जुगप्पवरो ॥५५॥" (६) प्रद्युम्नसूरयः समरादित्यसंक्षेप"प्रशस्तौ "यावद्ग्रन्थरथाश्चतुर्दशशती श्रीहारिभद्रा इमे वर्तन्ते किल पारियात्रिकतया सिद्ध्यध्वयानेऽङ्गिनाम् । तावत् पुष्परथः स एष समरादित्यस्य मन्निर्मितः संक्षेपस्तदनुप्लवः प्रचरतु क्रीडाकृते धीमताम् ॥६९॥" । श्रीमुनिदेवसूरयः शान्तिनाथचरित्रमहाकाव्ये" "चतुर्दशशतग्रन्थग्रन्थनायासलालसम् । हारिभद्रं मनो हारिभद्रं भद्रं करोतु नः ॥४॥" (८) प्रभाचन्द्रसूरयः प्रभावकचरित्रे पुनरिह च शतोनमुनधीमान्प्रकरणसार्धसहस्रमेष चक्रे । जिनसमयवरोपदेशरम्यं ध्रुवमिति संततिमेष तां च मेने ॥२०५॥ १२. अस्या निर्माणसमयादिकं तु कर्ता तत्प्रान्ते एवमुपदिष्टम् "चतुरधिकविंशतियुते वर्षसहस्रे गते च सिद्धेयम् । धवलकपुरे वसतौ धनपत्योर्बकुलबन्दिकयोः ॥ अणहिलपाटकनगेर संघवरैवर्तमानबुधमुख्यैः । श्रीमद्रोणाचार्यैर्विद्वद्भिः शोधिता चेति ॥" १३. इयं टीका गण्यवस्थायां 'रामचन्द्र' इत्याख्याभृतां वादिदेवसूरीणां गुरुभिर्मुनिचन्द्रसूरिभिः ११७४ मितविक्रमवर्षे व्यरचीति तदीयप्रशस्तिभागेनतेन ज्ञायते "प्रायस्तत्सर्वसन्तानभक्तिमान् मुनिनायकः । अभूच्छीमुनिचन्द्राख्यस्तेनैषा विवृतिः कृता ॥५॥ प्रकृता श्रीनागपुरे समर्थिताऽणहिलपाटके नगरे । अब्धि-मुनि-स्द्रसंख्ये वहमाने वैक्रमे वर्षे ॥६॥ साहाय्यमत्र परमं कृतं विनेयेन रामचन्द्रेण । गणिना लेखनसंशोधनादिना शेषशिष्यैश्च ॥७॥ १४. दार्शनिकोऽयं महाग्रन्थः प्रमाणनयतत्त्वालोकाऽलङ्कारसूत्राणां बृहद्विवरणस्पश्चतुरशीतिसहसश्लोकप्रमाणश्च श्रीमुनिचन्द्रसूरिशिष्यैर्वादिदेवसूरिभिर्विरचितः । सोऽयमिदानीं न क्वापि संपूर्णतयोपलभ्यते । १५. एतद् भावितीर्थपतेरममनामः कथावर्णनपरं पौर्णमिकमुनिरत्नसूरिभिः १२५२ संख्ये विक्रमवत्सरे व्यरचीति प्रशस्तितोवबुध्यते । तथाहि "एतद् विक्रमतो द्वि-पञ्च-दिनकृद्वर्षे कृतं पत्तने सम्यक् शोधितवान् नृपाक्षपटलाध्यक्षः कुमारः कविः ॥ सद्वैयाकरणाग्रणीविधिर्सचः श्रीपूर्णपालो यशः-पालो बालकविस्तथा मण-महानन्दौ च सभ्याग्रिमौ ॥३०॥" पूर्वाचार्यवर्णनपराभिः सार्थशतेन गाथाभिर्निबद्धत्वेन लब्धप्रकृतख्याति प्रकरणमिदं खरतरजिनदत्तसूरिभिर्विक्रमाद्वादशाब्दशतोत्तरार्धे निर्मितम् । अस्य च जिनपत्तिसूरिशिष्येण सुमतिगणिना विस्तृतवृत्तिरपि व्यरच्यत, यस्या निर्माणसमयः १२९५ स्पः कत्रैव तत्प्रान्ते"शर-निधि-दिनकरसंख्ये विक्रमवर्षे गुरौ द्वितीयायाम् । राधे पूर्णीभूता वृत्तिरियं नन्दतात् सुचिरम् ॥" इति पद्येन व्यक्तीकृतः । १७. "चतुर्दशशतप्रकरणगोनिरुद्धदोषः सदा हतप्रद्वेषः । हरिभद्रो हुततमा हरिरिव जातो युगप्रवरः ॥५५॥" १८ एतद्विरचनाकालस्तु ग्रन्थकारेणैव प्रशस्तावित्थं निरदेशि "वर्षे वारिधि-पक्ष-यक्षगणिते श्रीवर्धमानास्थितश्चक्रेऽमुं प्रथमं लिलेख तु जगच्चन्द्रः सुधीः पुस्तके । प्राग्वाटान्वयमन्त्रिवाहटसुत श्रीराणिगस्याऽङ्गजौ ग्रन्थार्थे रणमल्ल-सेगसचिवौ स्वं प्रार्थयेतां गुरुम् ॥" १९. अस्यापि रचनासमयः श्रीप्रद्युमसूरिसत्तासमयरूप एव, तैरेवास्य संशोधितत्वात् । तथा चोक्तं ग्रन्थकारेण "काव्ये श्रीमुनिदेवसूरिकविना श्रीशान्तिवृत्ते कृते श्रीप्रद्युममुनीन्दुना शुचिचः सर्गोऽगमत् सप्तमः ॥" २०. ऐतिहासिकपुरुषाणां चरितैर्निबद्धं काव्यमिदं प्रभाचन्द्रसूरिभिः १३३४ प्रमितविक्रमसंवत्सरे व्यरचीति तत्प्रशस्तिपद्यमेवेदं निर्दिशति "वेदा-ऽनल-शिखि-शशधरवर्षे चैत्रस्य धवलसप्तम्याम् । शुक्रे पुनर्वसुदिने संपूर्ण पूर्वऋषिचरितम् ॥२२॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 ... 392