Book Title: Dharm Sangrahani Part 02
Author(s): Ajitshekharsuri
Publisher: Adinath Jain Shwetambar Jain Mandir Trust

View full book text
Previous | Next

Page 24
________________ वा तया परावर्त्यमाना "चक्किदुगं हरिपणगं" इतीयं गाथा अर्थतो नावबुद्धा तैरित्यत्राप्यासीत्कोऽपि साक्षीः ? यतः "प्रतिज्ञापतितः खल्वेषः" इति भीतिमाशकमानाः स्वप्रतिज्ञातार्थपालनाय तद्विनेयीभावमुपादातुमात्मानमुपस्थापयेयुस्तत्संनिधानम् ? दुर्घटं चैतदवलेपलिप्तमनसां सुमनसामपि यन्मनःसाक्षिकमपि प्रतिज्ञाभङ्गमचिकीर्षन्तः स्वयमेव ते स्वपराजयमङ्गीकुर्युः । तदेतेन चित्रतागर्भेण व्यतिकरेणेत्थंकारमेव कथं न निर्धार्येत ?, यदुत, नाऽसीत्पूर्वनिगदिता प्रतिज्ञा गर्वनिबन्धना; अपि तु सत्यतत्त्वजिज्ञासाहेतुरिति । भवतु वा कथमपि तथापि सा हरिभद्रसूरीणां तु तत्त्वफलेनैव फलितवतीत्यत्र तु न केनापि विप्रतिपत्तव्यं भवतीति । अथैते सूरिवराः कदाचित् - "चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दुचछि केसी अ चक्की य ॥" इतीमां याकिनीसाध्वया पठ्यमानामावश्यकनियुक्तिगाथामाकापि तदर्थमनधिगच्छन्तः “सत्यप्रतिज्ञा भवन्ति सतां व्यवहाराः" इत्याभियुक्तोक्तिं सुदृढमवलम्बमानाः “स्वीकरोतु भगवती स्वशिष्यभावेन माम्" इति तस्यै गणिन्यै समयाचत, इत्यादि निगदितप्रायमेव, कथाविस्तरस्त्वन्यत्र विलोकनीयः । इह तु समालोचनमात्रमभिलषितम् । सा च एवं निगदतस्तान् जिनभटनामभृतां स्वगुरूणां पावं . प्रास्थापयत्। ते च तानदीक्षयन्निति । इदं च - - "दिवसगणमनर्थकं स पूर्व स्व (स्वक) मभिमानकदर्थ्यमानमूर्तिः । अमनुत स ततश्च मण्डपस्थं जिनभटसूरिमुनीश्वरं ददर्श ॥ अथ जिनभटसूरिरत्र कोपाद्भुतमिह शिष्यजने निजे निशम्य । उपशमनविधौ प्रवृत्तिमाधादिह हरिभद्रमुनीश्वरस्य तस्य ॥" इत्यादिना प्रभावकचरित्रस्य पद्यकदम्बकेन, . "हयकुसमयभडजिणभडसीसो सेस व्व धरियतित्थधरो ॥ जुगपवरजिणदत्तपहत्तसुत्ततत्तत्थरयणसिरो' ॥ इत्येतया गणधरसार्धशतकगाथया, आचार्यजिनभटस्य हि सुसाधुजनसेवितस्य शिष्येण । जिनवचनभावितमतेर्वृत्तवतस्तत्प्रसादेन ॥ किञ्चित्प्रक्षेपसंस्कारद्वारेणैवं कृता स्फुटा । आचार्यहरिभद्रेण टीका 'प्रज्ञापनाश्रया ॥" . इत्यादिहरिभद्रसूरिवचनेन चेहामीषां जिनभटदीक्षितत्वमुल्लिखितम् । वस्तुतस्तु जिनभटसूरीणां हरिभद्रगुरुत्वेऽपि न तद्दीक्षादायकत्वम्। "समाप्ता चेयं शिष्यहिता नामावश्यकटीका । कृतिः सिताम्बराचार्यजिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो याकिनीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रर ।" इत्यनेन “अल्पमति" विशेषणान्यथानुपपत्त्या स्वस्य हरिभद्रकर्तृकतां ख्यापयता आवश्यकटीकान्तस्थेनोल्लेखेनैतेषां जिनदत्तशिष्यत्वाभिधानात् । “जिनभटनिगदानुसारिणः" इत्यनेन जिनभटसूरीणामप्याज्ञाकर्तृत्वनिवेदनाच्च "आचार्यजिनभटस्य हि" इत्यादिनोदितं जिनभटशिष्यत्वमपि न व्याहन्यते, आज्ञाकारिष्वपि गुरुत्वव्यवहारस्य दृष्टत्वात् । ततश्च "आचार्यजिनभटस्य" इत्यभिधानं सामान्यगोचरम्, इदं पुनर्विशेषविषयम् - "जिनभटनिगदानुसारिणो जिनदत्तशिष्यस्य" इति । एतत्संवादि चेदमत्रानुसंधेयं हारिभद्रमेव वच :"एयं (वं) जिणदत्तायरियस्स उ अवयवभूएण चरियमिणं । जं विरइऊण पुग्नं महाणुभावचरियं मए पत्तं ॥ तेणं गुणाणुराओ होइ (उ) सुहं सव्वलोयस्स ।" एतेन - "महत्तरोपदेशात्श्रीजिनभद्राचार्यपादमूलमवसर्पन्" - इत्यादिलेखकप्रमादसंपन्नपाठदर्शनेन कैश्चिद् जिनभद्रसूरीणां . हरिभद्रगुरुत्वमभिमन्यते तदपि निराकृतं भवति । हरिभद्रवचनानामेव तत्परिपन्थित्वात् । एते कृतिमुख्या हरिभद्रसूरयो जैनधर्मप्राप्त्यनन्तरमेव तत्त्वतः स्वं जन्म मन्यमानास्तन्निमित्तं च तां गणिनी विदन्तः “धर्ममातेयम्" इत्यभिप्रेत्य स्वं तस्या धर्मपुत्रत्वेन वर्णयन्तः समदर्शयन् निजकृतज्ञताचिह्नम् । अमुना च सूरिभिः प्रतिपन्नेन मातृ-पुत्रत्वव्यवहारेण इदमप्यनुमातुं शक्यते- 'पूर्वे वयसि ते जैनसाधुतामाचरन्' इति । पूर्वोक्तव्यवहृतेस्तत्रैव शोभास्पदत्वेन स्वीकारसंभवात् । एवं च वक्ष्यमाणसंख्याकग्रन्थरचनापि संगतिमापद्यते इति । २. "चक्रिद्विकं हरिपञ्चकं पञ्चकं चक्रिणां केशवश्चक्री । केशवश्चक्री केशवो द्वौ चक्रिणौ केशवश्च चक्री च ॥" ३. "हतकुसमयभटजिनभटशिष्यः शेष इव धृततीर्थधरः । युगप्रवरजिनदत्तप्रभूक्तसूत्रतत्त्वार्थरत्रशिराः ॥" ४. प्रज्ञापनाप्रदेशव्याख्याप्रान्ते (किल्हा कृतकार्यविवरण [रिपोर्ट) पुस्तक पृ. ३१) । ५. पूज्यपाद पं. श्रीसिद्धिविजयगणीनामावश्यकपुस्तके -"संवत् १५४९ वर्षे श्रीमण्डपमहादुर्गे वा. सोमध्वजगणिभिः आवश्यकबृहट्टीका लेखयांचक्रे" इत्युल्लेखान्विते पाठोऽयम् । "एतद् (वं) जिनदत्ताचार्यस्य तु अवयवभूतेन चरितमिदम् । यद् विरचय्य पुण्यं महानुभावचरितं मया प्राप्तम् ॥ तेन गुणानुरागो भवति (तु) सुखं सर्वलोकस्य ।" समरादित्यकथाप्रान्तभागस्थेयं सार्धगाथा ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 392