Book Title: Dharm Sangrahani Part 02
Author(s): Ajitshekharsuri
Publisher: Adinath Jain Shwetambar Jain Mandir Trust

View full book text
Previous | Next

Page 23
________________ प्रातिष्ठिपन्निजपदे स विनिद्रभद्रे भद्रेश्वरं प्रभुमनश्वरकीर्तिपूरम् । आख्यामनङ्ग इति संगतवान् यदीयध्यानानले मदनवन्मदनो विलीय ॥१०॥ तत्पट्टमौलिमणितामभजद्भवार्तिभीतात्मनामभयदोऽभयदेवसूरिः । पापातपापगममन्वहमातपत्रीभूयाङ्गिनां शिरसि यस्य करश्चकार ॥११॥ तत्पट्टपर्वतमलङ्कुरते स्म कर्मव्यालावलीहरिनिभो हरिभद्रसूरिः ।। भूम्यां यदीयचरणोपनतैरशोभि मुक्ताफलोज्ज्वलतमैर्जगती यशोभिः ॥१२॥ शिष्यस्तस्य विभोर्नमस्यचरणाम्भोजस्य जज्ञे महान् साहित्योपनिषनभोङ्गणरविः श्रीबालचन्द्रः कविः । यं स्वप्रान्तस्पेत्य तद्दृढतरानुध्यानतुष्टा जगौ मत्पुत्रस्त्वमसीति शीतलगिरा देवी गिरामीश्वरी ॥१३॥" तथा, बालचन्द्रसूरिकृतकरुणावजायुधनाटकेऽप्येतदर्थक एव समुल्लापः श्रूयते, यथा - "नट :-मारिष ! श्रीदेवेन्द्रगुरुस्वहस्तस्वपट्टनिवेशितस्य भुवनभद्रङ्करस्य श्रीभद्रेश्वरसूरिसुगुरोः पट्टनभस्तलाऽलङ्करणकिरणमालिना प्रतिवादिदितितनयदमनशौरिणा श्रीमदभयदेवसूरिणा निजकरतामरसप्रतिष्ठितानप्रतिमप्रतिभाभरसौरभदुर्भगीकृतत्रिदशसूरीन् श्रीहरिभद्रसूरीनभिजानासि ? " (८) श्रीजिनचन्द्रसूरिशिष्यस्य श्रीचन्द्रसूरेः शिष्यः, येन कुमारपालराज्ये संवत् १२१६ वर्षेऽपभ्रंशभाषायां नेमिनाथचरित्रं विरचितम् । इदं च तदन्तस्थेन “इति श्रीचन्द्रसूरिक्रमकमलभसलश्रीहरिभद्रसूरिविरचितं नवभवनिबद्धं श्रीनेमिनाथचरित्रं समाप्तम्" इति शब्दसंदर्भेण तदीयप्रशस्तिलेखेन च स्पष्टमवबुध्यते । (९) बृहद्गच्छीयश्रीमानभद्रसूरिशिष्योऽप्येकतमो हरिभद्रसूरिः, यो जयवल्लभविरचितस्य 'वज्जालग्ग' ग्रन्थस्य छायालेखकेन रत्नदेवेन तत्प्रशस्तौ स्मृतः । तथाच तत्पाठ : गच्छे पृथौ श्रीमति मानभद्रसूरिर्बभूव प्रथितः पृथिव्याम् । तदीयपट्टे हरिभद्रसूरिज॑ज्ञेऽखिलक्ष्मातललोकपूज्यः ॥१॥ तच्छिष्यलेशोऽस्ति गुणानुरक्तः श्रीधर्मचन्द्रः सकलः कलाभिः । निपीय यद्वागमृतं सुधाया मनोहरं नो विबुधाः स्मरन्ति ॥२॥ विद्यालये प्राकृतेऽस्मिन्सुभाषितमणावहो । लिलेख लेखकच्छायां रत्नदेवश्च तद्राि । शिखि-ग्रहा-ऽग्नि-चन्द्रैर्हि प्रमिते वत्सरे वरे । ग्रन्थोऽयं संख्यया ख्यातः सहस्रत्रितयं ननु ॥३॥ इत्येवं विविधप्रमाणोपलम्भेन विनिर्णीतेष्वमीषु हरिभद्रसूरिषु सर्वप्रथमो याकिनीमहत्तराधर्मपुत्रतया ख्यात इत्याद्युक्तमेव पूर्वम् । ___ अथेदमपि विचारणमत्र जागृतिमासादयनानौचितीमञ्चेद्यदुत, धर्मसंग्रहणीनामधेयस्य दार्शनिकग्रन्थस्याऽस्य विधातारः सुविहितशिरोमणयो विद्वन्मणयः सर्वप्राचीना इम आचार्यहरिभद्रपादाः कतमस्य भूभागस्यावतंसीबभूवुः ? कस्य वा गुरोः पट्टप्रभावकतामातेनुः ?, कियतो वा सर्वसंख्यया ग्रन्थान् विरचयामासुः कदा चैते त्रिदशाधिपतेरातिथ्यमाभेजुरिति । अत्र च ___ "केन?" इत्याह→ हरिभद्राचार्येण, यः किल श्रीचित्रकूटाचल'चूलानिवासी प्रथमपर्याय एव स्फुटपठिताष्टव्याकरणः सर्वदर्शनानुयायितर्ककर्कशमतिमतामग्रगण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधतच्छिष्यभाव आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराऽऽश्रयसमीपलब्ध “चक्किदुगं हरिपणगं" इत्यादिगाथासूत्रो (विहित) निजनिपुणोहापोहयोगोऽपि कथमपि स्वयमनुपलब्धतदर्थस्तदवगमाय महत्तरोपदेशात् श्रीजिनभद्रा (टा) चार्यपादमूलमवसर्पन्नन्तरा जिनबिम्बाऽवलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात्समुच्चरित “वपुरेव तवाऽऽचष्टे" इत्यादिश्लोकः सूरिसमीपोपगतावदातप्रव्रज्यो ज्यायसी स्वसमय-परसमयकुशलतामाप्य महत्प्रवचनवात्सल्यमवलम्बमानश्चतुर्दशप्रकरणशतानि चकार" इत्युपदेशपदान्त्यगाथाव्याख्यायां श्रीमुनिचन्द्रसूरिसूचितचरित्रलेशेन प्रभावकचरित्रगणधरसार्धशतकवृत्ति-प्रबन्धकोश-नानाविधपट्टावल्यादीनां विलोकनेन च इमे आचार्यवाः प्रथमावस्थायां चित्रकूटनगराधिनाथस्य जितशत्रुनानो भूमिपालस्य पुरोहिता द्विजकुलतिलकाश्चासन्नित्यत्र न कोपि विप्रतिपादनपरः । इमे खलु कोविदशेखराः सर्वतन्त्रस्वतन्त्रीभूय स्वसममन्यं मनीषिणममन्यमानाः- "येनोक्तं नाऽवबुध्येय तदन्तेवासितामाश्रयेय" इति प्रतिज्ञासूत्रेण निजमात्मानं समयीयमन् । वर्ण्यतां नाम कोविदकुलेनेयं ज्ञानाजीर्णत्वप्रभवो व्याधिरिति । निधीयतां वैषां शिरसि दृढाभिमानाख्यदोषाधिरोपः । तदपि किमिदं ज्ञानाजीर्णत्वम् ? किमुतेयमवलेपकारिता? भणन्तु किल भवन्तः समेपि समकालमेव आमिति, न भवन्मतमेतदनुकूलयितुमुत्सहतेऽस्मदीयं चेतः । कथं नूत्सहेत! हन्त! न सूक्ष्मेक्षिकया समालोच्यते स्थलमिदं भवद्भिः, किञ्चिदग्रतोऽवसर्पणीयम् । पर्यालोचनीयैतेषां जयपराजयस्थितिः, किमेतैर्भगवत्या याकिन्या समं क्वापि संसदि शास्त्रार्थः पर्यचालि ? यदि १. अत्र चित्रकूटाचलचूलानिनासित्वमभिहितम्, प्रभावकचरित्र-गणधरसार्धशतकवृत्यादिषु तु सर्वत्रैषां चित्रकूटाचलासन्नं चित्रकूटनगरमेव निवासभूमिरिति दृश्यते । सुमतिगणिकृतायां गणंधरसार्धशतकवृत्तौ तु-"एवं सो पंडित्तगव्वमुव्वहमाणो हरिभद्दो नाम माहणो" इत्यनेन ताह्मणत्वमात्रं प्रतिपादितं न पुरोहितत्वम् । एवं चित्रकूटाधिपते राज्ञो नामापि तत्र न निर्दिष्टम् ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 392