Book Title: Dharm Sangrahani Part 02
Author(s): Ajitshekharsuri
Publisher: Adinath Jain Shwetambar Jain Mandir Trust

Previous | Next

Page 22
________________ अस्ताघवाङ्मयपयोनिधिमन्दराद्रिमुद्राजुषोः किमनयोः स्तुमहे महिनः । बाल्येऽपि निर्दलितवादिगजौ जगाद यौ व्याघ्रसिंहशिशुकाविति सिद्धराजः ॥४॥ सिद्धान्तोपनिषन्निषण्णहदयो धीजन्मभूमिस्तयोः पट्टे श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । भ्रान्त्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः संतुष्टैः कलिकालगौतम इति ख्यातिर्वितेने गुणैः ॥५॥ श्रीविजयसेनसूरिस्तत्पट्टे जयति जलधरध्वानः । यस्य गिरो धारा इव भवदवभवदवथुविभवभिद ॥६॥" पण्डितहरगोविन्ददासमहाशयस्तु विवेकमञ्जर्यादिटीकाकारं कविनामा विख्यातं बालचन्द्रसूरिमप्यस्यैव सूरेः शिष्यत्वेनोल्लिखितवान्, अयं च तस्योल्लेखः→ “आसडकविकृतविवेकमञ्जरीवृत्तिकर्ता बालचन्द्रसूरिरप्यस्यैव हरिभद्रसूरेः शिष्यत्वेन निजं स्वग्रन्थप्रशस्तौ प्रत्यभिजानीते" इत्युक्त्वा स्वमन्तव्यं संसाधयितुम् - "एतामासडिजैत्रसिंहसचिवेनाऽत्यन्तमभ्यर्थितो वृत्तिं श्रीहरिभद्रसूरिसगुरोः शिष्यप्रशिष्यावधिः । वाग्देवीप्रतिपन्नसूनुरकृत श्रीबालचन्द्राख्यया विख्यातोऽधिपतिर्गणस्य गणिनीरत्रश्रियो धर्मजः ॥१३॥ नागेन्द्रगच्छार्णवपार्वणेन्दुरेतां बृहद्गच्छनभोरविश्च । श्रीमान् विपूर्वो जयसेनसूरिः श्रीपद्मसूरिः समशोधयेताम् ॥१४॥ - इति विवेकमञ्जरीवृत्तेः प्रशस्तिपद्यद्वयमुपन्यस्तवान् । एतच्च न युक्तम्, बालचन्द्रसूरेः प्रकृतहरिभद्रसूरिशिष्यत्वे मानाभावात् । प्रमाणत्वेनोद्धतपद्यद्वितयेऽपि न हरिभद्रसूरेनागेन्द्रगच्छीयत्वं कलिकालगौतमबिस्दं वोपलभ्यते इति न तदपि साधकम् । किञ्च, बालचन्द्रसूरिहि हरिभद्रसूरेः पट्टधरः शिष्य इति तदीयग्रन्थेषु प्रकटतरम् । यथा वसन्तविलासमहाकाव्ये - समाहितः श्रीहरिभद्रसूरिगुरोगिरोपात्तविवेकसंपत्कथञ्चिदेवानुमतः पितृभ्यामभ्यासदज्जैनमतव्रतं सः ॥५३॥ पूर्णः समग्राभिरसौ कलाभिः क्रमेण भावीति गुरुर्विभाव्य । तं प्रीतचेताः किल बालचन्द्र इत्याख्यया दीक्षितमभ्यधत्त ॥५४॥ अधीतविद्यं तमथ क्रमेण समारुरक्षुर्दिवमायुषोऽन्ते । न्यवीविशद्विश्वनमस्यपादः स्वस्मिन्पदे श्रीहरिभद्रसूरिः ॥"५५॥ . प्रकृतहरिभद्रसूरिपट्टधरस्तु विजयसेनसूरिरिति धर्माभ्युदयप्रशस्तिश्लोकैर्निर्धारितमेव । अयं च हरिभद्रसूरिनर्नागेन्द्रगच्छीयश्रीमदमरचन्द्रसूरेः पट्टशिष्य इत्यपि निर्दिष्ट पूर्वम् । बालचन्द्रसूरिगुस्हरिभद्रसूरिस्तु चन्द्रगच्छीयश्रीमदभयदेवसूरेः पट्टधरः शिष्य इत्यादिकमुपदेशकन्दलीवृत्त्यादिषु बालचन्द्रादिभिरेव प्रतिपादितमनेकधा । (६) चन्द्रगच्छीयश्रीभद्रेश्वरसूरिशिष्यो यः १२८९ तमे विक्रमसंवत्सरे निर्मिते उपमितिभवप्रपञ्चासारोद्धारे तत्का श्रीमता देवेन्द्रसूरिणा स्वपूर्वगुरुत्वेन वर्णितः । तथाच तत्प्रशस्तिलेख : समाश्रितो यः शरणं क्षमाभृगणेन कर्माक्षनिपातभीत्या । अवारपारश्रियमादधानः स चन्द्रगच्छो भुवि सुप्रसिद्धः ॥१॥ - भव्यारविन्दप्रतिबोधहेतुरखण्डवृत्तः प्रतिषिद्धदोषः । श्रयन्नपूर्वेन्दुतुलामिह श्रीभद्रेश्वरो नाम बभूव सूरिः ॥२॥ तत्पट्टपूर्वाचलचण्डरोचिरजायत श्रीहरिभद्रसूरिः । मुदं न कस्मै रहितं विकृत्या तपश्च चित्रं च तनोति यस्य ॥३॥" अयमेव सूरिधुर्यः १२१५ वर्षे प्रणीतायां जम्बूद्वीपसमासटीकायां श्रीचन्द्रसूरिशिष्यैः श्रीविजयसिंहसूरिभिरपीत्थमस्मारि - "श्रीभद्रेश्वरसूरिशिष्यहरिभद्राचार्यतः सद्गुरोः प्राप्तश्रीजिनचन्द्रसूरिचरणान्तेवासितामाश्रितः । सूरिः श्रीविजयस्त्विमा व्यरचयत्कल्याणमालाजुषां, शैक्षश्चाभयचन्द्रको लिखितवानुद्दामदाक्ष्यः पुरा ॥" (७) चन्द्रगच्छीयः श्रीभद्रेश्वरसूरिपट्टप्राप्तप्रतिष्ठानां श्रीमदभयदेवसूरीणां शिष्यो बालचन्द्रकविगुरुश्च, इत्यादि उपदेशकन्दलीवृत्तिप्रशस्तितोऽवबुध्यते । तथाहि - "श्रीचन्द्रगच्छवनकैरवकेलिचन्द्रश्चन्द्रप्रभप्रभुरभिज्ञतमस्ततोऽभूत् । यो विश्वलोकविदितां मुदिताऽन्तरात्मा प्राभातिकी जिनपतिस्तुतिमाततान ॥५॥ तस्माद्धनेश्वर इति श्रुतपारदृश्वा विश्वाभिरामचरितोऽभ्युदियाय सूरिः । यो मन्त्रमाप गुस्तः सुरभूयभाजः प्राबोधयच्च समयूपुरदेवतां यः ॥६॥ तस्याऽभितः समभवन्भुवनप्रशस्याः शिष्याः श्रुताक्षकमलोद्धरणप्रवीणाः । चत्वार ऊर्जितरुचो विदुषां निषेव्या देव्याः करा इव पुराणकविप्रसूतेः ॥७॥ श्रीवीरभद्र इति सूरिरमीषु मुख्यः श्रीदेवसूरिरिति भूरिगुणो द्वितीयः । श्रीदेवभद्र इति सूरिवरस्तृतीयः श्रीशान्तिसूरिरिति च प्रथितश्चतुर्थः ॥८॥ श्रीमण्डलीति नगरी नगरीतिक्लुप्तप्रासादसंहतिरितोऽस्त्यमरावतीव । देवेन्द्रसूरिसुगुरुर्विततान तस्यां तद्वासिनां च हदि मूर्धि च वासलक्ष्मीम् ॥९॥ 2

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 392