Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah
View full book text ________________
अकरतानां गमो-गमनं यस्य यस्माद्वा सोऽकरतागमस्तस्य संबोधनम् । केषां ? सतामितिपूर्ववत् । हे अद्यक्षप्रभो ! यक्षाणां प्रभव:स्वामिनः उपलक्षणखात् । भवनपतिव्यंतरज्योतिष्कवैमानिकविद्याभृत्मानकानां स्वामिनो गृह्यते ततोऽन्तः-पूजयन्तो यक्षप्रभवो यस्य यस्मै वा सोऽहंद्यक्षप्रभुस्तस्य संबोधनम् । यद्वां त्वं किं विशिष्टः ? अद्यक्ष:-अर्हन्तः-पूजयन्तो यक्षा देवविशेषा यस्य यस्मै वा स तथा। त्वं किं विशिष्टः ? प्रभः-प्रकृष्टा भा कान्तिर्यस्य स प्रमः, यद्वा हे प्रभो ! हे स्वामिन् ! त्वं किं विशिष्टः ? प्रसन्नः, कस्य ? विजयदानगुरोः, अथवा हे विजयदानगुरो! विशिष्टो जयो विजयस्तस्य दानं विजयदानं तेन गुरुमहान् विजयदानगुरुस्तस्य संबोधनम् । यद्वा हे विजयदानगुरो ! विजयं च दानं च विजयदाने ताभ्यां गुरुविजयदानगुरुस्तस्य संबोधनम् । यद्वा हे विजयदान ! विजयस्य दानं यस्य स तथा तस्य संबोधनम् । हे गुरो ! गृणान्ति तत्त्वमिति गुरुस्तस्य संबोधनम् । अथवा हे विजय ! विशिष्टो जयो यस्य स तथा तस्य संबोधनम् । हे दानगुरो !दानेन गुरुर्दानगुरुस्तस्य संबोधनम् । त्वं किंविशिष्टः ? प्रसन्नः, केषां ? सतामित्यत्रापि संबंधनीय मिति प्रथमस्तुत्यर्थः इयं च यदा मूलनायकः श्रीआदिदेवो भवति तदा तमधिकृत्य प्रथममेव भणनीया ॥१॥
अथ चेन्मूलनायकः श्रीअभिनन्दनस्तदा तमाश्रित्यापीयमेवप्रथमं वक्तव्या तत्र चेत्थमर्थः प्रतन्यते तथाहि हे श्रीन ! श्री:-पूक्तरूपा तस्या इनः-स्वामी श्रीनस्तस्य संबोधनम् । हे अभिनन्दन ! यद्वा श्रीनश्चासावभिनन्दनश्च श्रीनाभिनन्दनस्तस्य संबोधनम् ।
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100