Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah
View full book text ________________
गवर्द्धमानः गोर्वाणी तया ऋद्धो-वृद्धि प्राप्तो, मानः-पूजाविशेषो, यस्य स तथा ऋधूद-वृद्धौ क्तप्रत्यये ऋद्ध इति गोशब्दस्य ऋद्ध इति, परे " स्वरे वानक्षे” इति सूत्रेणाव इत्यादेशे कृते सति " अवर्णस्येवर्णादिनैदोदरल" ( सि० १।२।६।) इति सूत्रेणार गवर्द्ध इति सिद्धं । अथवा हे गवर्द्ध ! गवा "संस्कारवत्वमौदात्यम् " ( अभि० प्र० का० श्लो० ६५) इत्यादि पंचत्रिंशद्वाग्गुण संयुक्तया वाण्या ऋद्ध-आद्यो गवर्द्धस्तस्य संबोधनम् । यदा हे ऋद्ध ! हे आद्य ! कया ? गवा-पूर्वोक्तरूपया वाण्या, त्वं किं विशिष्टः ? मानः-मां-लक्ष्मी नयति-प्रापयति इति मानः, केषां? सतामित्यत्रापियोज्यम्, शेषं सर्व श्रीऋषभपक्षवदिति पंचमस्तुत्यर्थः ॥ ५॥
अथ यदि मूलनायकः श्रीमहावीरस्तदाप्येषा एव तमुररीकृत्य पूर्व वक्तव्या तत्र चेत्थमर्थः प्रथनीयः स च यथा-हे वर्द्धमान ! सतां-लक्ष्मी समन्वितां शान्ति कुरुष्व, केषु ? श्री नाभिनन्दनजनेष्विति श्री शान्तिजिनपक्षवद् व्याख्येयम् । हे शान्ते ! हे अनेमे ! हे गुणप्रवरपाश्चग ! गुणैः प्रवराः पार्श्वगाः श्रीगौतमादयो विनेयविशेषा यस्य स तथा तस्य संबोधनम् । शेषं सर्व श्रीकृषभपक्षवदिति षष्ठमस्तुत्यर्थः ॥ ६॥
नन्वेतद्वयतिरिक्तेषु मूलनायकेषु सत्सु कथं तत्संबंधिनी स्तुतिभवति ? उच्यते तदा विवक्षाप्राधान्यादग्रगं एक कंचिन्जिनमधिकृत्य पूर्व पठनीया, तत्र चैवमर्थों व्याक्रियते तद्यथा-हे अभयद! हे जिन! त्वं सतां-लक्ष्मी संयुतां शान्ति कुरुष्व, केषु ? श्रीनाभिनन्दनज
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100