Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah
View full book text ________________
(४२) इति रात्रौ सुरीवाचां, श्रुत्वाहं गुरुवान्धवं । श्राद्धाँच प्राह तैः सार्द्ध-मन्तरिक्ष ययौ तदा ॥१०८॥ तत्र संघे समस्तानां, यात्रिणां प्रभुदर्शनं । अभूत्परं च मे नैव, मन्दभाग्यशिरोमणेः ॥१०९ ।। तदा खिन्नोऽनपानोय, त्यत्त्वाऽहं दर्शनोत्सुकः। नानास्तुत्याऽन्तरिक्षं तं, स्तोतुं तत्र प्रचक्रमे ॥११० ॥ नमस्तुभ्यं जिनेन्द्राय, त्राहिणेऽपकृतामपि । कलौ जाग्रतदेवाय, यथेष्टफलदायिने ॥१११ ॥ विना स्वार्थमहिं नाथ!, कृतो नागेश्वरस्त्वया । कमठे वैरिणि दत्त, सम्यक्त्वमतिनिष्ठुरे ॥११२ ।। आषाढभूतिक श्राद्धं, त्वां चिरकालप्तेविनं । दत्तः स्वामिन् ! त्वया मोक्षः कारुण्यरससागर ! ॥ ११३ ॥ भक्त्याऽऽलिङ्गनकुर्वन्तम्, गजं स्वर्ग ददे त्वया । ततः कलिकुण्डनाम्ना, त्वं प्रथितोऽभवो भुवि ॥ ११४ ॥ नवाङ्गत्तिकर्तुश्चा-भयदेवगणेशितुः। कुष्ट हृत्वा त्वया नाथ !, कृतं हेमद्युतिवपुः ॥११५ ॥ पालनपुरनराधीशः, पालणः परमारकः । भ्रष्टराज्यं पुनर्लेभे, त्वत्पदाम्बुजसेवनात् ॥११६॥ उद्देशिश्रेष्टिनो गेहे, घृतद्धिस्त्वया कृता । ततोघृतकलोलाख्यो, नाथ ! त्वं भुवि विश्रुतः ॥१७॥
१ स्वप्ने. प्र. Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100