Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah
View full book text ________________
जनेषु-लोकेषु, सतां-लक्ष्मीसहितां शान्ति कुरुष्व, त्वं किं विशिष्टः? गुणप्रवरपार्श्वगवर्द्धमान:-गुणैः प्रवराः पार्श्वगाः शिष्यविशेषास्तैर्वर्द्धमानः शेष सर्व श्रीवृषभजिनपक्षवदिति द्वितीयस्तुत्यर्थः ॥२॥ ___ अथ यदि मौलं बिम्बं श्रीशान्तिजिनस्यास्ति तदा तमेव जिनं स्वीकृत्य इयं स्तुतिः पूर्व वक्तव्या तदा चायमर्थः प्रकटीक्रियते हे . शान्ते ! सतां लक्ष्मीकलितां शान्ति कुरुष्व केषु ? श्रीनाभिनन्दनजनेषु श्रिया इनाः, अभिनंदयन्तीत्यभिनन्दनाः, श्रीनाश्च अभिनन्दनाश्च श्रीनाभिनन्दनाः श्रीनाभिनन्दनाश्च श्रीनाभिनन्दनजनास्तेषु । अथवा जनेषु इति पृथकपदं हे श्रीन ! श्रीपते ! हे अभिनन्दन ! अभिनन्दयतात्यभिनन्दनस्तस्य संबोधनम् , हे हर्षकर ! केषां सतामितिपदं षष्टीबहुवचनान्तम् योजयितव्यम् , अन्यच्छेषं श्रीयुगादिजिनपक्षवदिति तृतीयस्तुत्यर्थः ॥३॥
यदा मूलनायकः श्रीनेमिजिनस्तत्र तमंगीकृत्याप्येषा एवोचार्या तत्र चार्थ एवं स च यथा हे नेमे ! सतां शान्ति कुरुष्व, केषु ? श्रीनाभिनंदनजनेषु, त्वं किं विशिष्टः ? गुणप्रवरपाश्चगवर्द्धमानः इति श्रीशान्तिपक्षवदिति चतुर्थस्तुत्यर्थः ॥४॥
यदा कुत्रचित् मूलनायकः श्रीपार्श्वनाथस्तदा इयमेव तमुररीकृत्यं पूर्व वाच्या, तत्र च व्याख्यानविधिरयं तथाहि-हे पार्थ ! सतां लक्ष्मी सहितां शान्ति कुरुष्व, केषु ? श्रीनाभिनंदनजनेषु, इति पदं श्री शान्ति जिन पक्षवत, हे शान्ने ! हे अनेमे ! हे गुणप्रवर ! गुणैः प्रवरः गुणप्रवरस्तस्य संबोधनम् । त्वं किं विशिष्टः ?
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100