Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 13
________________ सावनेमिः तस्य संबोधनम्, न तु लक्षणरूपम्, भगवतः पाणिपादादौ लक्षणरूपचक्रस्य सद्भावात्। त्वं किं विशिष्टः ? गुण प्रवरपार्श्वगवर्द्धमानः-गुणैः प्रवरा उत्तमाः पार्श्वगाः पुंडरीकादयो विनेयविशेषा यस्य स तथा हे अभयदाकरतागम ! तत्र भयम् इहलोकादिसप्तधा अथवा रोग-जल-ज्वलन-विषधर-चौर-रिपु-मृगेंद्र-गज-रणादिरूपं, दि-दु-दा-छेदबंधनयोः इत्येकाक्षरनाममालावचनाद् दा-शब्देन छेदो बंघो वा वाच्यः, तत्र छेदो-हस्तपादाद्यवयवानां, बंधा-पाणिपादकंठादिषु निगडादिभिधो बन्धनं, अकं-सामान्यतया दुःखं, रतमैथुनं, भयदाकरतपदैर्द्वन्द्वः, न विद्यते भयदाकरतानां आगमो यस्य यस्माद्वा स अभयदाकरतागमः तस्य संबोधनम् । केषाम् ? सताम्उत्तमानां वा इति अत्र षष्ठयन्तम् सतामिति पदं व्याख्येयं अथवा हे अभयदाकर ! दु-दांक दाने, विपि, दा-दानं । अभयस्य दांदानं करोतीत्यभयदाकरस्तस्य संबोधनम् । हे तागम ? ताया:लक्ष्म्या आगमो यस्य यस्माद्वा स तागमस्तस्य संबोधनम् । केषां ? सतामिति पूर्ववत् । यद्वा हे अभयद ? त्रिभुवनोदरविवरवर्तिनां प्राणिनां न कदाचिदपि भयं-पूर्वोक्तप्रकारं ददातीति अभयदस्तस्य संबोधनम् । अथवा हे अभयद ! हे सर्वज्ञ ! " स्याद्वाद्यभयदसार्वाः सर्वज्ञः सर्वदर्शिकेवलिनौ” इत्यभिधानचिंतामणिवचनात् । हे आकरतागम ! रत्नसुवर्णरूप्पादीनां आकरेभ्यः ताया-लक्ष्म्या आगमः समागमनं यस्य स आकरतागमस्तस्य सम्बोधनम् । यद्वा हे अकरतागम ! अकं-दुखं, रतं-मैथुनं, “आः मंतापेऽव्ययः क्रुच्या"मित्येकाक्षरवचनात् आः-संतापः एभित्रिभिः पदैर्द्वन्द्वः www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100