Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 22
________________ अथ श्रुतज्ञानहेतुभूतां श्रीभगवगिरमाश्रित्य तृतीयवारमपीयं कथितव्या तत्रार्थों यथा हे अजितभारति ! न जिता कुतीथिकं वादि भिरित्यजिता अजिता चासौ भारती चाजितभारती तस्याः संबोधनम् . केषां ? जिनानामितिगम्यं । त्वमेव धरायां यशसा अधः। त्वं किं विशिष्टा ? श्रीवर्द्धमाना। पुनः किं विशिष्टा! ईशा स्वामिनी। यद्वा, ईशा समा। त्वं कि वशिष्टा ? जिनराजराजीस्तुता, जिना:छद्मस्थवीतरागाः केवलिनो वा राजानश्च तेषां राजी श्रेणिस्तया स्तुता। कथमनिशं, त्वं किं विशिष्टा? संमददा केषां ? आप्तपुंसाम् । दृष्टान्तस्तु श्रीअजितजिनपक्षवदिति पंचमस्तुत्यर्थः ॥५॥ अथाधिष्टायिका सरस्वतीदेवी.उररीकृत्य चतुर्थवारमप्येषा एव वाच्या, तत्र चैवमर्थः कथ्यते तद्यथा हे अजितभारति! न जिता देवादिभिरित्यजिता अजिता चासौ भारती चाजितभारती तस्याः संबोधनम् । खमेव धरायां यशसा अवृधः, त्वं किं विशिष्टा ? श्रीवर्द्धमाना। पुनस्त्वं किं विशिष्टा, ईशा इति श्रीभगवद्र्वित् , त्वं किं विशिष्टा ? जिनराजराजीस्तुता इत्यपि भगवद्भिर्वत् , परं तत्संबंघिस्वरूपकथनेन । त्वं किं विशिष्टा? संमददा, केषां? आतपुसां अर्थः सर्वोऽपि श्रीअजितजिनवदिति षष्ठमस्तुत्यर्थः ।।६॥ श्रीमद्विजयदानाह्व-मूरीन्द्राणां प्रसादतः। मयाऽस्याः संस्तुतेष्टीका कृता संशोध्यतां बुधैः ॥१॥ इति श्रीअजितजिन ? श्रीविरजिन २ श्रीसाधारणजिनानां ३ स्तुत्यवचूरिः संपूर्णा । ग्रंथाग्रं १७५ संवत् १६१९ वर्षे कार्तिक वदि अष्टम्यां गुरौ लिखितं पुस्तकमिदं. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100