Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah
View full book text ________________
वर्तम्नि संस्थिते नाथे, सविषादै नॅपैस्तदा । पुनराराधितो नागः, पाहात्रैव स्थास्यत्यसौ ॥७९॥ इत्याकये महीनाथ-स्तत्र चैत्यमकारयत् । विशालं लक्षमुद्राङ्कम्, रंगमंडपमंडितं
॥८०॥ परिसमाप्तं तच्चैत्यं, दृष्ट्वा दध्यौ नृपो हृदि । अहो हीशचैत्येन, स्थास्यत्यति ममाभिधा ॥८१ ॥ तच्चैत्ये स्थातुमहन्तम्, प्रार्थयामास पार्थिवः । परं नागच्छति तत्र, नृपेऽभिमानकारणात् ॥८२॥ ततःखिन्नोऽवनीनाथः, पुनः सस्मार भोगिनम् । परं नायाति भोगी सो, नृपेऽभिमानकारणात् ॥ ८३ ॥ अतिखिन्नस्तदा दीनो, राजा पप्रच्छ मन्त्रिणं । प्रभु गच्छति चैत्ये, किं कार्यं तदुपायनम् ॥८४॥ इतिश्रुत्वा हृदि चिन्त्य (१) जजल्प सचिवस्तदा । उपायमेकमस्त्यत्र, शृणुत मद्वचःप्रभो ! ॥८५॥ श्रुयतेऽभयदेवाख्यः सर्वशास्त्रविशारदः। मान्यो बहुषु भूपेषु, सूरिः सुरीबलान्वितः ॥८६॥ गुर्जरदेशि(शी)यो राजा, कर्णः कर्णेवविक्रमः । स ददी श्रीमति सूरौ, मल्लधारिमहापदं ॥८७॥ सचाचार्यो गतेवर्षे, स्तम्भनसंघसत्तमैः। सम माणिक्यदेवेश, नन्तुमितः समागतः ॥८८ ॥ स त्वद्य विद्यते देव ? देवगिर्यभिधेपुरे । येन केनाप्युपायेन, चेदायातीह साधुभृत् ॥८९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100