Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 20
________________ यद्वा हे जिनराजराजीस्तुत ! जिना:-सामान्य केवलिना, राजानश्च प्रतीता एव, तेषां राजी-श्रेणिस्त या स्तुतस्य संबोधनम् । कथम् ? अनिशं निरंतर हे संमदद ! संमदो हर्षरतं ददातीति संमददस्तस्य संबोधनम् । केषाम् ? आप्तपुंसाम् आप्ताः-सत्याः ये पुमांसस्तेषामित्यर्थः " आप्तो लब्धे च सत्ये चाप्पाप्तिः संबद्धलाभयो " (द्वि० का श्लो० १७२) रित्यनेकार्थवचनात् । यद्वा हे संमदद ! सम्-सामस्त्येन, मदं द्यति-च्छिनत्तीति संमददः तस्य संबोधनम्, केषां? पुंसां, हे आप्त! देवाधिदेव ! "देवाधिदेव-बोधिद-पुरुषोत्तम-वीतरागाप्ता" (प्र० का० श्लो० २५) रित्यभिधानचिन्तामणिवचनात् । त्वमेव, धरायां-पृथिव्यां, यशसा अधः वृद्धि प्राप्तवानित्यर्थः, अत्र एवकारोऽन्ययोगव्यवच्छेदार्थः, इव यथा, अंभसा-वारिणा, वल्ली, वृद्धि प्राप्नोति तथा खमपि यशसा वृद्धि प्राप्तवान् । ननु अवृध इति क्रियापदं आत्मनेपदिधातुत्वात्कथं संजाधटीतीति चेदुच्यते "युद्भ्योऽद्यतन्यां वे" ति (सि०३।३।४४३) सूत्रेणाद्यतनीविषये धुतादीनां धातूनाम् आत्मनेपदस्य वैकल्पिकत्वात्परस्मैपदमिति " लुदि यतादि पुष्पादेः परस्मै (सि०३ । ४।६४) इति सूत्रेण कर्तर्यङ् डिम्वान्नगुणः इत्यादिनाऽवृधः इति प्रयोगसिद्धिः इयं कदा श्रीअजितनाथ एव मूलनायकस्तदा तं जिनं स्वीकृत्य प्रथममध्ययनीया इति प्रथमस्तुत्यर्थः ॥१॥ यदा श्रीवीरजिनो मूलनायकस्तदापीयं तमंगीकृत्य पूर्व वक्तव्या तत्रचेन्थमर्थः प्रतन्यते-यथा हे श्रीवर्द्धमान! श्रिया-पूर्वव्यावर्णितरूपया युतो बर्द्धमानः श्रीवर्द्धमानस्तस्य संबोधनम् । हे आजितभार www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100