Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 23
________________ ॥अथविद्वद्गोष्टी॥ श्रीभोजराजसभायां, पंचशतपण्डितपूरितायां, विद्यागुणगोष्ठयां, जायमानायां । श्रीधनपालपंडितेन, जिनधर्मरतेन, राज्ञोऽग्रे मोक्तम् येषां न विद्या, न तपो, न दानं, न चापि शीलं, न गुणो, न धर्मः (न च धर्मबुद्धिः) ते मर्त्यलोके भूवि भारभूता, मनुष्यरूपेण मृगाश्चरन्ति ॥ १॥ इति पण्डितवचनं श्रुखा मृगः पाह-ममेनरोपमानं कस्मादुच्यते-यतः-स्वरे शीर्ष जने मांसं, खचं च ब्रह्मचारिणि । शङ्ग योगीश्वरे दद्यां, मृतः स्त्रीषु स्वलोचने ॥२॥ तेन ममैवंविधमनुष्योपमानं न युक्तं, ततः, पुनरपरपण्डितेनोक्तयेषां न विद्या० मनुष्यरूपाः पशवश्चरन्ति ॥३॥ ___इति श्रुत्वा गौराहतृणमपि दुग्धं धवलं, छगणं गेहस्य मण्डनं भवति (परमं)। रोगापहारि मूत्रं, पुच्छं सुरकोटिसंस्थानं ॥४॥ तेनैतदप्युपमानं न युक्तम्, ततोऽन्येनोक्तम् येषां न विद्या० मनुष्यरूपाणि तृणानि मन्ये इति श्रुत्वा तृणजातिराह-गवि दुग्धं रणे ग्रीष्मे, वर्षाहेमंनयोरपि । नृणां त्राणमहं स्यां तत् , तत्समत्वं कथं मम ॥६॥ सामान्योपमानं महतां न रोचते-(अपरेणोक्तम् ) येषां न विद्या० मनुष्यरूपैश्च भवन्ति वृक्षाः ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100