Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 18
________________ गुणप्रवरपार्श्वगवर्द्धमानः-गुणैः प्रवराः पार्श्वगाः आकर्णयितागे जनास्तैर्द्धमानः। हे अभयदाकरत ! न विद्यते भयदाकरतानि पूर्वोक्तरूपाणि यस्मात्स तथा तस्य संबोधनम् । इत्येक एवार्थः । अन्यत्सर्व श्रीआदिदेववदिति नवमस्तुत्यर्थः॥९॥ __ अथाविष्टायकदेवं समुद्दिश्य चतुर्थवारमप्येषैव कथनीया तत्रायमर्थः प्रादुष्क्रियते यथा हे अईद्यक्षपभो ! यक्षाणां प्रभुः यक्षप्रभुः अहंतः यक्षप्रभुरहंद्यक्षप्रभुस्तस्य संबोधनम् । अथवा हे अहंद्यक्ष ! हे प्रभो ! हे स्वामिन् ! इति पृथक् पद, त्वं सतां लक्ष्मीयुक्तां शान्ति कुरुष्व, केषु ? श्री नाभिनन्दनजनेषु इति श्रीशान्तिदेववदेव । त्वं किं विशिष्टः ? गुणप्रवरपार्श्वगबर्द्धमानः-गुणैः प्रवराः पार्श्वगा देवदेव्यादयो भृत्यास्तवर्द्धमानः। हे अभयदाकर ! हे तागम ! इत्यामंत्रणद्वयं प्रकारान्तरेण द्वितीयवार पूर्वं व्याख्यात तथैवैकोऽर्थः अन्येषामर्थानामसंभवित्वात् अन्यत्सर्व श्रीऋषभजिनपक्षवदिति दशमस्तुत्यर्थः॥१०॥ अथाभीप्सितगुरुवर्णनत्वेनेयमपि स्तुतिः प्रकटनीया तत्रार्थों यथा-हे विजयदानगुरो! सतां लक्ष्मीसहितां शान्ति कुरुष्व, केषु ? श्रीनाभिनन्दनजनेषु इति श्रीशान्तिवत् । त्वं किं विशिष्टः ? गुणप्रवरपार्श्वगवर्द्धमानः-गुणैः प्रवराः पार्श्वगाः श्रीहोरविजयसूरिप्रमुखा विनयविशेषास्तैर्वर्द्धमानः, त्वं किं विशिष्टः ? प्रसन्नः, केषां ? सतां अन्यत्सर्व श्रीमारुदेवदेववदिति एकादशमोऽर्थः ॥११॥ गोति:-श्री विजयदानसूरे विनेयशिशुना कृता स्तुतिरियं तां । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100