Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah

View full book text
Previous | Next

Page 17
________________ नेषु, त्वं किं विशिष्टः? गुणप्रवरपार्श्वगवर्द्धमान इत्येतच्छ्रीशान्तिजिनपक्षवदित्यक्सेय ह आकरतागम ! आकरात् पूर्वोक्तात्, तायालक्ष्म्या, आगमो यस्य स तथा तस्य संबोधनम् । यद्वा हे अकरतागमेति पूर्ववद् व्याख्येयं शेषमन्यत्सर्वं श्रीयुगादि जिनपक्षवदिति सप्तमस्तुत्यर्थः ॥७॥ ___ अथ समस्तजिनवरकदम्बकमुद्दिश्य द्वीतीयवारमपीयमध्य यनीया तत्र चैवमर्थ आविष्क्रियते स च यथा-हे अभयदाकर ! अभदा जिनास्तेषामाकरः समूहोऽभयदाकरस्तस्य संबोधनम् । " यथा निकरस्तथाऽऽकरोऽपि सम्रहार्थेऽस्त्यभिधानचिंतामण्यवचूरौ।" त्वं सतां-कमलान्वितां, शान्ति कुरुष्व, केषु ? श्रीनाभिनन्दनजनेषु इति, गुणप्रवरपार्श्वगवर्द्धमान इति च श्रीशान्तिवत्, हे तागम ! ताया-लक्ष्म्या आगमो यस्य यस्माद्वा स तागमस्तस्य संबोधनम् । शेषं सर्वं श्रीयुगादिदेववदिति अष्टमस्तुत्यर्थः ॥८॥ ___अथ सिद्धान्त मभिप्रेत्य तृतीयवारमपि एषा एवोच्चारणीया तत्रायमर्थः यथा हे आगम ! सतां-पूर्वोक्तां शान्ति त्वं कुरुष्व, केषु? श्री नाभिनन्दनजनेषु इति श्रीशान्ति जिनवत्, हे अनेमे ! न विद्यते नेमाऽवधिर्मर्यादा खंडो वा यस्या सा अनेमा, अनेमा निःसीमा अखंडा वा ईलक्ष्मीर्यस्य सोऽनेमेस्तस्य संबोधनम् । “धर्मे दानादिके नेमस्त्वर्द्धमाकारगर्तयोः, अवधौ कैतवे काले" (द्वि० का० श्लो० ३३६-३३७ )इत्यनेकार्थवचनात् । यद्धा हे अनेमे ! नेमा-कैतवं इ. कामश्चेति द्वन्द्वः ततो न भवतः नेमयौ कैतबकामौ यस्मात् सोऽनेमेस्तस्य संबोधनम् । हे अनेमे ! त्वं किं विशिष्टः ? Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100