Book Title: Chamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Author(s): Kshantivijay
Publisher: Hirachand Kakalbhai Shah
View full book text ________________
एकादश संधाना स्तुतिः।
- - प्रणम्य श्रीजिनेशानां पदपंकजयामलम् । सर्वेषां विद्यमानानां, भूतानां भाविनां तथा ॥१॥ खंडेरखंडैर्यमकैरनेकैः, पदैर्मयैकादशधा क्रियेत । एकस्तुतेरप्यवधार्य सम्यग् , व्याख्यानमाख्यां स्वगुरोः
स्वचित्ते ॥२॥ तद्यथाश्रीनाभिनन्दन-जनेषु कुरुष्व शांते-नेमेगुणप्रवरपार्श्वगवर्द्धमानः। शान्ति सतामभयदाकरतागमाई-द्यक्षपभो विजयदानगुरोः प्रसन्नः॥१॥
इति श्रीआदिनाथ १ श्रीअभिनन्दन २ श्रीशान्तिजिन ३ श्रीनेमिनाथ ४ श्रीपार्श्वनाथ ५ श्रीमहावीर ६ श्रीसाधारण ७ जिनानां स्तुतिः तथा श्री५ विजयदानमरींद्राणां स्तुतिः संपूर्णा ।
व्याख्या-हे श्रीनाभिनंदन! नाभेर्नन्दनो नाभिनन्दना, श्रियाचतुस्त्रिंशदतिशयसमृद्धिरूपया ज्ञानसंपद्रूपया वा, उपलक्षितः ना. भिनन्दनः श्रीनाभिनन्दनः तस्य संबोधनम्, हे श्रीनाभिनन्दन ! हे श्री आदिनाथ ! जनेषु सताम्-शान्तिम्-क्षुद्रोपद्रवनाशरूपाम् । त्वं कुरुष्व-निष्पादयं इत्यन्वयः, शान्ति कि विशिष्टाम् ? सना-सह तया लक्ष्म्या वर्तते या सा सता नां सतां लक्ष्मोसहितां शांति कुरुष्वत्यर्थः । हे शान्ते ! शान्त्यात्मकत्वात् तत्कृर्तृत्वाचेति शान्तिः तस्य संबोधनम् ! हे अनेमे ! न विद्यते नेमिः शस्त्ररूपं चक्रं यस्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100