SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अकरतानां गमो-गमनं यस्य यस्माद्वा सोऽकरतागमस्तस्य संबोधनम् । केषां ? सतामितिपूर्ववत् । हे अद्यक्षप्रभो ! यक्षाणां प्रभव:स्वामिनः उपलक्षणखात् । भवनपतिव्यंतरज्योतिष्कवैमानिकविद्याभृत्मानकानां स्वामिनो गृह्यते ततोऽन्तः-पूजयन्तो यक्षप्रभवो यस्य यस्मै वा सोऽहंद्यक्षप्रभुस्तस्य संबोधनम् । यद्वां त्वं किं विशिष्टः ? अद्यक्ष:-अर्हन्तः-पूजयन्तो यक्षा देवविशेषा यस्य यस्मै वा स तथा। त्वं किं विशिष्टः ? प्रभः-प्रकृष्टा भा कान्तिर्यस्य स प्रमः, यद्वा हे प्रभो ! हे स्वामिन् ! त्वं किं विशिष्टः ? प्रसन्नः, कस्य ? विजयदानगुरोः, अथवा हे विजयदानगुरो! विशिष्टो जयो विजयस्तस्य दानं विजयदानं तेन गुरुमहान् विजयदानगुरुस्तस्य संबोधनम् । यद्वा हे विजयदानगुरो ! विजयं च दानं च विजयदाने ताभ्यां गुरुविजयदानगुरुस्तस्य संबोधनम् । यद्वा हे विजयदान ! विजयस्य दानं यस्य स तथा तस्य संबोधनम् । हे गुरो ! गृणान्ति तत्त्वमिति गुरुस्तस्य संबोधनम् । अथवा हे विजय ! विशिष्टो जयो यस्य स तथा तस्य संबोधनम् । हे दानगुरो !दानेन गुरुर्दानगुरुस्तस्य संबोधनम् । त्वं किंविशिष्टः ? प्रसन्नः, केषां ? सतामित्यत्रापि संबंधनीय मिति प्रथमस्तुत्यर्थः इयं च यदा मूलनायकः श्रीआदिदेवो भवति तदा तमधिकृत्य प्रथममेव भणनीया ॥१॥ अथ चेन्मूलनायकः श्रीअभिनन्दनस्तदा तमाश्रित्यापीयमेवप्रथमं वक्तव्या तत्र चेत्थमर्थः प्रतन्यते तथाहि हे श्रीन ! श्री:-पूक्तरूपा तस्या इनः-स्वामी श्रीनस्तस्य संबोधनम् । हे अभिनन्दन ! यद्वा श्रीनश्चासावभिनन्दनश्च श्रीनाभिनन्दनस्तस्य संबोधनम् । www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034788
Book TitleChamatkari Savchuri Stotra Sangraha tatha Vankchuliya Sutra Saransh
Original Sutra AuthorN/A
AuthorKshantivijay
PublisherHirachand Kakalbhai Shah
Publication Year1923
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy