________________
पञ्चममकाममरणीयाध्ययनम् ॥
तत्रात्मा काङ्क्षेत गुणान् यावच्छरीरस्य भेद इति वदता मर्त्तव्यमप्रमत्ततयेत्युक्तं । तच्च मरणयुक्तिज्ञानात् स्यादिति पञ्चमं मरणाध्ययनमाह
तत्र द्रव्यमरणमजीवानां विनाशः, भावमरणमायुः क्षयः, तत् त्रिधा, ओघमरणं सामान्यतः सर्वप्राणिनां प्राणत्यागात्मकं स्यात्, भवमरणं यन्नारकादेर्नरकादिभवविषयितया विवक्षितं, तद्भवमरणं यस्मिन्नेव मनुष्यभवादौ मृतः पुनस्तस्मिन्नेवोत्पद्य यन्प्रियते इति । इह मनुष्यभावभाविना भवमरणान्तर्वर्त्तिना मनुष्यभविकमरणेनाधिकारः । सम्प्रति मरणभेदाः प्रदर्श्यन्ते । यथा
आवीइ १ ओहि २ अंतिय ३, वलायमरणं ४ वसट्टमरणं ५ च ।
अंतोसलं ६ तब्भव ७, बालं ८ तह पंडियं ९ मीसं १० ॥ १॥ [ प्र. सा. गा.१००६ ] छउमत्थमरण ११ केवलि १२, वेहायस १३ गिद्धपिट्टमरणं १४ च । भत्तपरिण्णा १५ इङ्गिणि १६, पाउवगमणं १७ च सत्तरसं ॥२॥ [ प्र.सा.गा.१००७ ]
व्याख्या - आवीचिमरणं १ अवधिमरणं २ 'अंतिय'त्ति आर्षत्वादत्यन्तमरणं ३ 'वलायमरणं'ति वलान्मरणं ४ वशार्त्तमरणं ५ अन्तःशल्यमरणं ६ तद्भवमरणं ७ बालमरणं ८ तथा पण्डितमरणं ९ मिश्रमरणं १० छद्मस्थमरणं ११ केविलमरणं १२ वैहायसमरणं १३ गृध्रस्पृष्टमरणं १४ भक्तपरिज्ञामरणं १५ इङ्गिनीमरणं १६ पादपोपगमनमरणं १७ चेति सप्तदशमरणानि ॥
तत्राद्यां प्राकृतत्वादासमन्ताद्वीचय इव वीचयः प्रतिसमयमनुभूयमानायुषोऽपरायुर्दलिकोदयपूर्वायुर्दलिकच्युति श्रेण्यो यस्मिंस्तदावीचि, तच्च तन्मरणं च आवीचिमरणं, तत्पञ्चधा, द्रव्यावीचिमरणं १ क्षेत्रावीचिमरणं २ कालावीचिमरणं ३ भवावीचिमरणं ४ भावावीचिमरणं ५ चेति । तत्र द्रव्यावीचिमरणं नाम यन्नरकतिर्यग्नरामराणामुत्पत्तिमसमयात् प्रभृति स्वस्यायुः कर्मदलिकानामनुसमयमनुभवनाद्विचटनं, तच्च नारकादिभेदाच्चतुधैव तद्विषयं क्षेत्रमपि चतुधैव,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org