Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीउत्तराध्ययनदीपिकाटीका - १
तत्र तया पुत्रः प्रसूतस्तदा सा तज्जनकनाममुद्रायुतं तं बालं रत्नकम्बले संवेष्ट्य स्मशाने मुमोच । स्मशानपालकेन स निजपत्न्यै दत्तः, अवकीर्णित इति च तस्याभिधानं कृतं, रहःस्थितया पद्मावतीसाव्या तत्सर्वोदन्तो ज्ञातः, महत्तरया पृष्टा सा जगौ मया स मृतगर्भस्त्यक्तः, अथोत्पतन्नपुत्रमोहा सा पद्मावती स्मशानपालकभार्यया सह प्रीतिं चकार, भिक्षाप्राप्तमोदकादि च तस्मै बालाय दत्वा तमप्रीणयत्, सोऽपि च तां साध्वीं विनयादिभिः सत्कारयामास । अथ स बालस्तस्य चाण्डालस्य गृहे वृद्धिं प्राप्नुवन् बालैः सह क्रीडन् राजतेजसा भासुरस्तान् बालानवक्, अहोऽहं वो राट् मां करं दत्त ! स रुक्षकण्डवा व्याप्तस्तानूचे भो मां कण्डूयध्वं ! ततस्तस्य करण्ड्वाख्या बभूव । क्रमेण स प्रवृद्धः स्मशानरक्षको जातः, इतो द्वौ यती केनापि हेतुना तत्र स्मशाने समागतौ, तत्र कुड प्ररूढमेकं वंशदण्डं दृष्ट्वा तयोरेको वंशदण्डलक्षणज्ञोऽवक् मूलाच्चतुरङ्गुलत एतद्दण्डादाता राट् स्यात् ।
२७०
तद्वचनं तेन मातङ्गसुतेनैकेन द्विजेन च तत्रस्थेनाश्रावि । ततोऽसौ द्विजो विजने चतुरङ्गुलं खात्वा तं दण्डमलात्, तदा स मातङ्गबालेन तद् दृष्ट्वा स दण्डस्तस्मादाच्छिन्नः, ततो द्विजस्तं बालं तलारक्षपार्श्वे नीत्वोवाच देहि मे दण्डं ! सोऽवक् मत्स्मशानजातं दण्डं तुभ्यं नैव दास्ये । द्विजोऽवगनेन मे कार्यं त्वमन्यं लाहि ! तथाप्यदद्दारकस्तलारक्षेण पृष्टः किं न दत्से ? स ऊचेऽहमेतेन दण्डेन राजा भविष्यामि । तद्बालवाचं श्रुत्वा जातहास्येन तलारक्षेणोक्तं भो बाल ! यदा त्वं राजा भवेस्तदाऽस्य द्विजस्य त्वयैको ग्रामो देयः तेनापि तत् प्रतिपन्नं । अथ स बालस्तं दण्डमादाय स्वगृहं लुब्धोऽसौ द्विजोऽन्यद्विजानाहूय तं बालं हन्तुं विचारं कृतवान् । तदा तमुदन्तं श्रुत्वा तत्पिता भार्यासुतयुतस्ततो निःस्तृत्य काञ्चनपुरमागात् ।
गतः,
तत्र तन्नगरनृपे मृते मन्त्रिभिरधिवासितोऽश्वो बहिः सुप्तस्य तस्य करकण्डोः पार्श्वे समागत्य तं प्रदक्षिणय्य हेषारवं कृतवान् । अथ तं सुलक्षणोपेतं दृष्ट्वा नागरैर्जयजयारावः कृतः, परं ब्राह्मणा अयं मातङ्ग इति तं प्रवेष्टुं नाऽदुः, तदा करकण्डुना सा वंशदण्डो निजकरे धृतो ज्वलितुं लग्नः, तदा भीतास्ते ततः पलायिताः, ततो करकण्डुना तद्वाटधानकग्रामस्थाश्चाण्डाला द्विजीकृताः, उक्तं च
दधिवाहनपुत्रेण राज्ञा च करकण्डुना ।
"
वाटधानकवास्तव्या-श्चाण्डाला ब्राह्मणीकृताः ॥१ ॥ []
इतस्तं प्राप्तराज्यं श्रुत्वा स ब्राह्मणस्तत्रागत्योवाच देहि मे ग्रामं ! करकण्डुनोक्तं ते रुचितं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350