Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
एकोनविंशं मृगापुत्रीयाध्ययनम्
२८७ व्याख्या-मृगापुत्रो महद्धिको राज्यलक्ष्मीयुक्तः पौराणिकी प्राचीनां जाति स्मरति, किं स्मरति ? मया श्रामण्यं [च] चारित्रं पुराकृतं पूर्वं पालितमभूत् , क्व सति ? जातिस्मरणे ज्ञाने समुत्पन्ने सति, सञ्जाते सतीति ।।९।।
विसएहिं अरज्जंतो, रज्जंतो संजमंमि य ।
अम्मापिउरं उवागम्म, इमं वयणमव्ववी ॥१०॥ व्याख्या-विषयेष्वरज्यन् , रज्यन् च पुनः संयमे, स अम्बापितरावुपागम्येदं वचनमब्रवीत् ॥१०॥
सुयाणि मे पंच महव्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु। निविन्नकामो मि महन्नवाओ, अणुजाणह पव्वइस्सामि अम्मो ॥११॥
व्याख्या-श्रुतानि 'मे' मयाऽन्यजन्मनि पञ्चमहाव्रतानि, नरकेषु दुःखं च पुनस्तिर्यग्योनिषु, उपलक्षणाद्देवनृभवयोश्च दुःखमनुभूतमस्तीति शेषः, ततोऽहं निर्विण्णकामो निवृत्तेच्छोऽस्मि, महार्णवाद्भवसागरात् , अतो हे पितरौ ! मामनुजानीथाः, अहं प्रव्रजिष्यामि, बहुदुःखवारणाय दीक्षां लास्यामि ॥११॥ अथ तयोर्भोगनिमन्त्रणां स्वयं निषेधयति
अम्मताय मए भोगा, भुत्ता विसफलोवमा ।
पच्छा कडुयविवागा, अणुबंधदुहावहा ॥१२॥ व्याख्या हे पितरौ ! मया पूर्वं भोगा भुक्ताः, कीदृशा भोगाः ? विषफलोपमाः, विषमिति विषवृक्षस्तत्फलं तदुपमाः, पश्चात् कटुकविपाकाः पश्चात् कटुको विपाको येषां ते तथा, पूर्व मधुरा इत्यर्थः, पुनः कथम्भूताः ? अनुबन्धदुःखावहा नित्यं दुःखकरा इत्यर्थः ॥१२॥ किञ्च कामाः स्पर्शप्रधानाः, स्पर्शश्च देहाश्रयः, देहश्चेदृग् यथा
इमं सरीरं अणिच्चं, असुइ असुइसंभवं ।
असासयावासमिणं, दुक्खकेसाण भायणं ॥१३॥ व्याख्या हे पितरौ ! इदं शरीरमनित्यम् , अशुचि स्वभावात् , अशुचिसम्भवं शुक्रशोणितोपन्नम् , अशाश्वत आवासो जीवस्यावस्थानं यस्मिंस्तदशाश्वतावासम् , पुनरिदमित्यभिधानमतीवाऽसारत्वसूचकम् , दुःखहेतवः क्लेशा रोगास्तेषां च भाजनम् ॥१३॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350