SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ एकोनविंशं मृगापुत्रीयाध्ययनम् २८७ व्याख्या-मृगापुत्रो महद्धिको राज्यलक्ष्मीयुक्तः पौराणिकी प्राचीनां जाति स्मरति, किं स्मरति ? मया श्रामण्यं [च] चारित्रं पुराकृतं पूर्वं पालितमभूत् , क्व सति ? जातिस्मरणे ज्ञाने समुत्पन्ने सति, सञ्जाते सतीति ।।९।। विसएहिं अरज्जंतो, रज्जंतो संजमंमि य । अम्मापिउरं उवागम्म, इमं वयणमव्ववी ॥१०॥ व्याख्या-विषयेष्वरज्यन् , रज्यन् च पुनः संयमे, स अम्बापितरावुपागम्येदं वचनमब्रवीत् ॥१०॥ सुयाणि मे पंच महव्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु। निविन्नकामो मि महन्नवाओ, अणुजाणह पव्वइस्सामि अम्मो ॥११॥ व्याख्या-श्रुतानि 'मे' मयाऽन्यजन्मनि पञ्चमहाव्रतानि, नरकेषु दुःखं च पुनस्तिर्यग्योनिषु, उपलक्षणाद्देवनृभवयोश्च दुःखमनुभूतमस्तीति शेषः, ततोऽहं निर्विण्णकामो निवृत्तेच्छोऽस्मि, महार्णवाद्भवसागरात् , अतो हे पितरौ ! मामनुजानीथाः, अहं प्रव्रजिष्यामि, बहुदुःखवारणाय दीक्षां लास्यामि ॥११॥ अथ तयोर्भोगनिमन्त्रणां स्वयं निषेधयति अम्मताय मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुयविवागा, अणुबंधदुहावहा ॥१२॥ व्याख्या हे पितरौ ! मया पूर्वं भोगा भुक्ताः, कीदृशा भोगाः ? विषफलोपमाः, विषमिति विषवृक्षस्तत्फलं तदुपमाः, पश्चात् कटुकविपाकाः पश्चात् कटुको विपाको येषां ते तथा, पूर्व मधुरा इत्यर्थः, पुनः कथम्भूताः ? अनुबन्धदुःखावहा नित्यं दुःखकरा इत्यर्थः ॥१२॥ किञ्च कामाः स्पर्शप्रधानाः, स्पर्शश्च देहाश्रयः, देहश्चेदृग् यथा इमं सरीरं अणिच्चं, असुइ असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥१३॥ व्याख्या हे पितरौ ! इदं शरीरमनित्यम् , अशुचि स्वभावात् , अशुचिसम्भवं शुक्रशोणितोपन्नम् , अशाश्वत आवासो जीवस्यावस्थानं यस्मिंस्तदशाश्वतावासम् , पुनरिदमित्यभिधानमतीवाऽसारत्वसूचकम् , दुःखहेतवः क्लेशा रोगास्तेषां च भाजनम् ॥१३॥ _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy