________________
२८६
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-मणिरत्नकुट्टिमतले प्रासादे, आलोकने सर्वोपरि चतुरिकारूपे गवाक्षे स्थित आलोकते नगरस्य सुग्रीवस्य चतुष्कत्रिकचत्वराणि ॥४॥ इति सूत्रचतुष्कार्थः ॥ ततः
अह तत्थ अइच्छंतं, पासई समणसंजयं ।।
तवनियमसंजमधरं, सीलड्ढे गुणआगरं ॥५॥ व्याख्या-अथ तेषु त्रिकादिषु अतिक्रामन्तं पश्यति, श्रमणं संयतं, श्रमणस्य शाक्यादेरपि भावात् संयतग्रहणम् , तपोऽनशनादि, नियमा द्रव्याद्यभिग्रहाः, संयमः सप्तदशधा, तान् धारयतीति तपोनियमसंयमधरस्तम् , अत एव शीलमष्टादशसहस्रशीलाङ्गरूपम् , तेनाढ्यं, गुणा ज्ञानाद्यास्तेषामाकरम् ॥५॥
तं पेहई मियापुत्ते, दिट्टीए अणिमिसाए उ।
कहिं मण्णेरिसं रूवं, दिट्ठपुव्वं मए पुरा ॥६॥ व्याख्या-तमेतं श्रमणं पश्यति मृगापुत्रो दृष्ट्या, तुः एवार्थे, अनिमिषयैव, क्व मन्ये जाने ईदृशं रूपं दृष्टपूर्वं मया, पुरा प्राग्जन्मनीति ॥६॥
साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे ।
मोहं गतस्स संतस्स, जाईसरणं समुप्पन्नं ॥७॥ व्याख्या-तस्य मृगापुत्रस्य साधोर्दर्शनेऽध्यवसानेऽन्तःकरणपरिणामे शोभने क्षायोपशामिकभावे वर्तिनि सति, मोहम् , क्वेदं मया दृष्टमिति चित्तोत्थमूच्र्छा गतस्य प्राप्तस्य सतो जातिस्मरणं समुत्पन्नम् ।।७।। किं तज्जातिस्मरणं ? तदाह
देवलोगचुओ संतो, माणुस्सं भवमागओ ।
सन्निनाणे समुप्पन्ने, जाईसरणं पुराणयं ॥८॥ व्याख्या-अहं देवलोकाच्च्युतः सन् मानुष्यं भवमागतः, इति सज्ञिज्ञाने समुत्पन्ने सति पुराणकं प्राचीनं जातिस्मरणं तस्याभूत् , सज्ञिनो गर्भजपञ्चन्द्रियस्य ज्ञानं सज्ञिज्ञानम् , तस्मिन् सज्ञिज्ञाने समुत्पन्ने सतीति बोध्यम् ॥८॥ पाठान्तरगाथा- (जाईसरणे समुप्पने, मियापुत्ते महड्डिए ।
सई पोराणियं जाइं, सामन्नं च पुराकयं ॥९॥)
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org