Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२८८
श्रीउत्तराध्ययनदीपिकाटीका-१ असासए सरीरंमि, रई णोवलभामिहं ।
पच्छा पुरा य चइयव्वे, फेणबुब्बुयसंनिभे ॥१४॥ व्याख्या-आशाश्वते शरीरे रतिं चित्तस्वास्थ्यं नोपलभेऽहं भोगेषु सत्स्वपि, कीदृशे पश्चाद्भुक्तभोगितायाम् , पुराऽभुक्तभोगितायां वा, त्यक्तव्ये शरीरे फेनबुद्बुदसन्निभे ॥१४॥ भोगनिमन्त्रणत्यागमुक्त्वा भवनिर्वेदस्य हेतुमाह
माणुसत्ते असारंमि, वाहीरोगाण आलए ।
जरामरण घत्थंमि, खणं पि न रमामहं ॥१५॥ व्याख्या-हे पितरौ ! असारे मनुष्यत्वेऽहं क्षणमपि न रमामि, न हर्षं भजामि, कीदृशे मनुष्यत्वे ? व्याधिरोगाणामालये, व्याधयोऽतीवबाधाहेतवः कुष्ठाद्या रोगा ज्वराद्यास्तेषामालये, जरामरणग्रस्ते च क्षणमपि न रमेऽहमिति ॥१५।।
जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य ।
अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥१६॥ व्याख्या हे पितरौ ! हु इति निश्चयेन संसारो दुःखं दुःखहेतुर्वर्त्तते, अहो इत्याश्चर्ये, यत्र संसारे जीवाः क्लिश्यन्ति, किं किं संसारे दुःखमस्तीत्याह-जन्म दुःखं, जरा दुःखं, पुना रोगाः शिरोऽतिप्रमुखास्तथैव मरणानि, एतानि सर्वाणि दुःखान्येव सन्ति ॥१६॥
खित्तं वत्थु हिरण्णं च, पुत्तदारं च बंधवा (नायओ)।
चइत्ताणं इमं देहं, गंतव्वमवसस्स मे ॥१७॥ व्याख्या-हे पितरौ ! मम अवश्यमरणस्य सतः परभवे गन्तव्यमेव, किं किं कृत्वा? क्षेत्रं ग्रामोद्यानादिकम् , वास्तु गृहम् , हिरण्यं रूप्यं स्वर्णं वा, पुत्रदारं पुत्रकलत्रम् , च पुनर्बान्धवान् स्वज्ञातीन् , इमान् सर्वान् त्वक्त्वा , तथैवेदं देहं शरीरमपि त्यक्त्वेत्यर्थः ॥१७॥
जहा किंपाकफलाणं, परिणामो न सुंदरो ।
एवं भुत्ताण भोगाणं, परिणामो न सुंदरो ॥१८॥ व्याख्या हे पितरौ ! यथा किम्पाकफलानां परिणामो भक्षणानन्तरं परिणतिसमयः सुन्दरो न तथा भुक्तानां भोगानां परिणामोऽपि सुन्दरो न भवतीति ॥१८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350