Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 343
________________ ३०० श्रीउत्तराध्ययनदीपिकाटीका-१ तुहं प्पियाइं मंसाइं, खंडाइं सोलगाणि य । खाविओ मि समंसाई, अग्गिवण्णाई णेगसो ॥७०॥ व्याख्या-हे पितरौ ! पुनः परमाधार्मिकैरिति स्मारयित्वा स्वमांसानि अहं खादितः स्वमांसानि भोजितः, कीदृशानि स्वमांसानि ? खण्डानि खण्डरूपाणि, पुनः सोल्लकानि भटित्रीकृतानि, पुनरग्निवर्णानि जाज्वल्यमानानि, तान्यप्यनेकवारं खादितानि, किं स्मारयित्वा ? इत्याह-रे नारक ! तव प्राग्भवे मांसानि प्रियाण्यासनिति ॥७०॥ .. तुहं पिया सुरा सीहू, मेरई य महूणि य ।। __ पाइओ मि जलंतीओ, वसाओ रुहिराणि य ॥७१॥ व्याख्या-पुनस्तैः परमाधार्मिकैरहं ज्वलन्तीर्वसा अस्थितगतरसान् च पुना रुधिराणि पायितोऽस्मि, इति स्मारयित्वेत्यध्याहारः, रे नारक ! तव प्राग्भवे सुरा चन्द्रहासाभिधं मद्यं, सीधुस्तालवृक्षदुग्धोद्भवा, मैरेयी पिष्टोद्भवा शाटितोप्पन्नान्नरसा, पुनर्मधूनि पुष्पोद्भवानि मद्यानि प्रियाण्यासन् , इति निर्भर्त्सनापूर्वकं पायित इत्यर्थः ॥७१।। निच्चं भीएण तत्थेण, दुहिएण वहिएण य । परमा दुहसंबद्धा, वेयणा वेईया मए ॥७२॥ व्याख्या हे पितरौ ! मया परमा उत्कृष्टा वक्तुमशक्या दुःखसम्बद्धाः, एतादृश्यो वेदना वेदिता भुक्ता इत्यर्थः, कथम्भूतेन मया ? नित्यं भीतेन पुनस्त्रस्तेनोद्विग्नेन, पुनस्त्रासवशादेव दुःखितेन, पुनर्व्यथितेन, कम्पमानसर्वाङ्गोपाङ्गेन ॥७२॥ तिव्वचंडप्पगाढाओ, घोराओ अइदुस्सहा । महाभयाओ भीमाओ, नरएसु वेड्या मए ॥७३॥ ___ व्याख्या-पुनर्मया नरकेषु वेदना वेदिता, असाता अनुभूताः, कथम्भूता वेदनाः ? तीव्रचण्डप्रगाढास्तीवरसानुभवाधिक्यात् चण्डा उत्कटा वक्तुमशक्याः, गाढा बहुलस्थितिकाः, घोरा भयदाः, अतिदुस्सहा अत्यन्तं दुरध्यासाः, भीमाः श्रूयमाणा अपि भयप्रदाः, एकार्थिकाश्चैते शब्दा वेदनाधिक्यसूचकाः ॥७३॥ जारिसा माणुसे लोए, ताया ! संति वेयणा । इत्तोऽणंतगुणिया, नरएसु दुक्खवेयणा ॥७४॥ व्याख्या-हे तात ! मनुष्यलोके यादृश्यः शीतोष्णादिका वेदना दृश्यन्ते, ताभ्योऽपि नरकेषु अनन्तगुणा दुःखवेदना वर्तन्ते ॥७४।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350