Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 346
________________ ३०३ एकोनविंशं मृगापुत्रीयाध्ययनम् मृगचर्यामेव स्पष्टयतिजहा मिए एगे अणेगचारी, अणेगवासे धुवगोयरे य । एवं मुणी गोयरियं पविट्ठो, नो हीलए नो वि य खिसइज्जा ॥८४॥ व्याख्या-यथा मृग एकोऽद्वितीयोऽनेकचारी नैकत्र भक्तपानचरणशीलः, नैकत्र वासोऽस्याऽस्तीत्यनेकवासः, ध्रुवगोचरश्च, सदा गोचरलब्धमेवाहारयतीति, एवं मृगवद्विशेषणविशिष्टो मुनिर्गोचर्या भिक्षाटनं प्रविष्टो न हीलयेत् कदन्नादि, न 'खिसइज्ज'त्ति न निन्देदर्हाऽप्राप्तौ स्वं परं वा । इति सूत्राष्टकार्थः ॥८४॥ एवं मृगचर्यास्वरूपमुक्त्वा यत्तेनोक्तं, यच्च पितृभ्यां, ततश्च यदसौ कृतवांस्तदाहमियचारियं चरिस्सामि, एवं पुत्ता जहासुहं । अम्मापिऊहिं अणुन्नाओ, जहाइ उवहिं तओ ॥८५॥ व्याख्या-यदा मृगापुत्रेण पितरौ प्रतीत्युक्तं यदहं मृगचर्यां चरिष्यामीति, तदा तौ ब्रूतः-हे पुत्र ! यद्येवं तदा यथा तव सुखं स्यात्तथा भव ! अस्माकमाज्ञास्ति, ततो मातापितृभ्यामनुज्ञातो मृगापुत्रकुमार उपधिं परिग्रहं सचित्ताचित्तरूपं परित्यजति ॥८५॥ उक्तमर्थं स विस्तारयतिमिगचारियं चरिस्सामि, सव्वदुक्खविमुक्खणिं । तुब्भेहिं अणुण्णाओ, गच्छ पुत्त जहासुहं ॥८६॥ व्याख्या-सर्वपरिग्रहं त्यक्त्वा पुनर्मूगापुत्रो वदति, हे पितरौ ! अहं भवद्भ्यामनुज्ञातो मृगचर्यामङ्गीकरिष्यामि, कीदृशीं तां ? सर्वदुःखविमोक्षणी सर्वापद्भ्यो विमोचिनीं । तदा तौ वदतः हे पुत्र ! यथा सुखं गच्छ ? दीक्षां गृहाणेति । किञ्च हे पुत्र ! सीहत्ता निक्खमिओ, सीहत्ताए विहरसु पुत्ता । जह नवरि धम्मकामा, विरत्तकामा य विहरंति ॥१॥ [ऋषि./प्र.२८ ] नाणेण दंसणेण य, चरित्ततवनियमगुणेहिं । खंतीए मुत्तीए, होउ तुमं वड्डमाणमई ॥२॥ ॥८६।। एवं सो अम्मापियरो, अणुमाणित्ताण बहुविहं । ममत्तं छिंदए (मुंचई) ताहे, महानागो व्व कंचुकं ॥८७॥ व्याख्या-एवममुना प्रकारेण स मृगापुत्रो मातापित्रोरनुज्ञां प्राप्य बहुविधं ममत्वं Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350