Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
३०२
श्रीउत्तराध्ययनदीपिकाटीका -१
अच्छन्तं तिष्ठन्तं, तथाविधावासो वासाऽभावज्ञप्त्यै, 'को णं'ति क एनं 'ताहे' तदा चिकित्सत्यौषधाद्युपदेशेन । महाशब्देन महान् कोऽपि कदापि तथाविधं व्याध्युपद्रुतं प्राणिनं दृष्ट्वा चिकित्सेदपि, उद्घुष्यच्चक्षुर्व्याघ्रवत् ॥७९॥
कोवा से ओसहं देइ, को वा से पुच्छई सुहं । को वा से भत्तपाणं च, आहरित्ता पणामए ॥८०॥
व्याख्या-हे पितरौ ! तस्य रोगग्रस्तस्य मृगस्य क औषधं ददाति ? 'वा' अथवा तस्य मृगस्य क आगत्य सुखसातां पृच्छति ? 'वा' अथवा तस्य मृगस्य भक्तपानमाहृत्यानीय कः प्रणामयेदर्पयेत् ? न कोऽपीत्यर्थः ॥ ८० ॥
जयाय से सही होइ, तया गच्छइ गोयरं ।
भत्तपाणस्स अट्ठाए, वल्लराणि सराणि य ॥८१॥
व्याख्या- यदा च स मृगः सुखी भवति, स्वभावेनैव रोगमुक्तो भवति, तदा गोचरं गच्छति, भक्ष्यस्थाने व्रजति, तत्र च भक्तपानस्यार्थं वल्लराणि हरिततृणस्थलानि, च पुनः सरांसि जलस्थानानि विलोकयतीत्यर्थः ॥ ८१ ॥
खाइत्ता पाणियं पाउ, वल्लरेहिं सरेहि च ।
मिगचारियं चरित्ताणं, गच्छइ मिगचारियं ॥ ८२ ॥
व्याख्या-हे पितरौ ! स नीरोगो मृगो मृगचर्यया मृगभोजनपानविधिना चरित्वा वल्लरेभ्यो हरिततृणप्रदेशेभ्यः खादित्वा मितं निजभक्ष्यं भुक्त्वा, तथा सरोभ्यस्तटाकेभ्यः पानीयं पीत्वा मृगो मृगचर्यां गच्छति, इतस्तत उत्प्लवनात्मिकां गतिं प्राप्नोतीत्यर्थः ॥८२॥
एवं समुट्ठिओ भिक्खू, एवमेव अगओ ।
मिगचारियं चरित्ताणं उड्डुं पक्कमइ दिसं ॥८३॥
व्याख्या–एवं मृगवत् समुपस्थितः संयमानुष्ठानं प्रति, तथाविधातङ्कोत्पत्तावपि न चिकित्साभिमुखो भिक्षुः, एवमेव मृगवदेवानेकगो, यथासौ वृक्षमूले नैकत्रैवास्ते, किं तु कदाचित् क्वचिदेव, एवमेषोऽप्यनियतस्थानस्थ एव ( पाठान्तरे - ' अणिएयणे 'त्ति अनिकेतनोऽगृहः) स चैवं मृगचर्यां चरित्वा अपगताऽशेषकर्मांशः, ऊर्ध्वं प्रकामति दिशं च चोपरिस्थानस्थो भवति स्यात् एवं निर्वृत्तिरेवात्र मृगचर्योपमार्थत उक्ता, तत्र मृगोपमाश्च मुनयः, ते हि अनियततया विहृत्य गच्छन्तीति ॥८३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 343 344 345 346 347 348 349 350