Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
३०५
एकोनविंशं मृगापुत्रीयाध्ययनम्
गारवेसु कसायेसु, दंडसल्लभयेसु य ।
नियत्तो हाससोगाओ, अनियाणो अबंधणो ॥१२॥ व्याख्या-अत्र गारवादीनि पदानि सुब्ब्यत्ययात् पञ्चम्यन्तानि व्याख्येयानि । निवृत्त इति च सर्वत्र योज्यम् । स मृगापुत्रो गारेवेभ्यः, क्रोधादिकषायेभ्यो, दण्डशल्यभयेभ्यः, तत्र दण्डो मनोवाक्कायानामसद्व्यापारः, शल्यं मायानिदानमिथ्यात्वरूपं, भयानीहलोकभयादिसप्तभयानि, तेभ्यो निवृत्तः, हास्यशोकाभ्यां निवृत्तः, अनिदानो निदानरहितः, अबन्धनो रागद्वेषबन्धनरहितश्च जातः ।।१२।।
अणिस्सिओ इहं लोए, परलोए अणिस्सिओ ।
वासीचंदणकप्पो य, असणे अणसणे तहा ॥१३॥ व्याख्या-अनिश्रितः, नेहलोकार्थं परलोकार्थं वा अनुष्ठानवान् , कस्यापि साहाय्यं वा न वाञ्छते, पुनः वासीचन्दनकल्पः, यदा कश्चिद्वास्या पशुना शरीरं छिनत्ति, कश्चिच्च चन्दनेन शरीमर्चयति, तदा तयोर्द्वयोरप्युपरि समानभावो द्वेषरागरहित इत्यर्थः, तथैवाऽशने आहारे, अनशने अनाहारे चापि सदृशस्तुल्यपरिणामवान् , एवंविधः स मृगापुत्रो जातः ॥९३।।
अपसत्थेहिं दारेहि, सव्वओ पिहियासवे ।
अज्झप्पज्झाणजोगेहि, पसत्थदमसासणो ॥१४॥ व्याख्या-अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनाऽपायेभ्यो हिंसादिभ्यः सर्वतः सर्वेभ्यो निवृत्तः, अत एव पिहितो निरुद्ध आश्रवः कर्मसङ्गलनात्मको येन स तथा अध्यात्मध्यानयोगाः शुभध्यानव्यापारास्तैः, प्रशस्तो दमः शमः, शासनं च सर्वज्ञागमरूपं च यस्य च प्रशस्तदमशासनः, एवंविधो मृगापुत्रो जातः ॥९४॥
अतः फलमाह
एवं नाणेण चरणेण, दंसणेण तवेण य । भावणाहि य सुद्धाह, सम्मं भावित्तु अप्पयं ॥१५॥ बहुयाणि य वासाणि, सामन्नमणुपालिया ।
मासिएण उ भत्तेणं, सिद्धि पत्तो अणुत्तरं ॥१६॥ व्याख्या-तु पुनर्मगापुत्रो मुनिर्मासिकेन भक्तेन सिद्धि प्राप्तो मोक्षं गतः, मासेन भवं मासिकं तेन मासिकेन भक्तेन मासोपवासेनेत्यर्थः, अथ कथम्भूतां सिद्धिं ? अनुत्तरां
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 346 347 348 349 350