Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
एकोनविंशं मृगापुत्रीयाध्ययनम्
२९९
व्याख्या - पुनः [ अवशो] अहं गलैर्मत्स्यानां पाशैर्मकरजालैर्मत्स्यजालैर्मत्स्य इव विद्धगलोऽभूवं, पुनर्गृहीतो मकररूपधारिभिः परमाधार्मिकैर्बलादुपात्तः, पुनः 'उल्लिओ' इति उल्लिखितश्चीरितः, पुनः स्फाटितः काष्टवद्विदारितः, पुनरनन्तशो मारितो पशुरिव कुट्टितः ॥६५॥ विदंसएहिं जालेहिं, लेप्पाहिं सउणो विव ।
गहिओ लग्गो य बद्धो य, मारिओ य अनंतसो ॥ ६६ ॥
व्याख्या - पुनरहं शकुनिरिव पक्षीव, विशेषेण दंशन्तीति विदंशकाः श्येनादयस्तैर्जालैस्तादृग्बन्धनैः पक्षिबन्धनविशेषैर्बलाद् गृहीतः, पुनर्लेप्याभिर्वज्रलेपादिभिः श्लेष - द्रव्यैर्लग्नः श्लिष्टः, पुनरहं बद्धो दवरकादिना चरणग्रीवादौ नियन्त्रितः, पुनर्मारितोऽनन्तशो बहुवारान् प्राणैर्विहीनः कृतः ||६६||
कुहाडपरशुमाईहिं, वड्ढइहिं दुम इव ।
कुट्टओ फाडिओ छिन्नो, तच्छिओ य अणंतसो ॥६७॥
व्याख्या - पुनरहं कुठारैः पर्वादिकैः काष्ठसंस्करणसाधनप्रहरणैर्वर्द्धकिभिद्रुम इव कुट्टितः स्फाटितश्छिन्नश्च तक्षितस्त्वगपनयनेनाऽनन्तश इति ॥६७॥ चवेडमुट्ठिमाईहिं, कुमारेहिं अयं पिa ।
ताओ कुट्टिओ भिन्नो, चुण्णिओ य अणंतसो ॥ ६८ ॥
व्याख्या - हे पितरौ ! पुनरहं परमाधार्मिकैर्देवैश्चपेटाभिर्हस्ततालैः पुनर्मुष्ट्यादिभिर्बद्धहस्तैः, आदिशब्दाल्लत्ताजानुकूर्परादिप्रहारैस्ताडितः कुट्टितः, भिन्नो भेदं प्रापितचूर्णितश्च कै: कमिव ? कुमारैर्लोहकारैरय इव लोह इव, यथा लोहकारेण लोहः कुट्यते भेद्यते चूर्ण्यते श्लक्ष्णीक्रियते तथा ॥६८॥
"
तत्ताइं तंबलोहाई, तउयाइं सीसगाणि य ।
पाइओ कलकलंताई, आरसंतो सुभेवं ॥६९॥
व्याख्या - हे पितरौ ! पुनरहं परमाधार्मिकैस्तप्तानि गालितानि ताम्रलोहादीनि वैक्रियाणि त्रपुकानि सीसकानि चाहं पायितः कीदृशानि तानि ? कलकलन्तानि कलकलशब्दं कुर्वन्ति, अत्यन्तमुत्कालितानीति अव्यक्तं शब्दं कुर्वन्ति, कीदृशोऽहं ? सुभैरवमतिभीषणं शब्दं रसन् विलपन् ॥६९॥
Jain Education International 2010_02
"
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350