Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 341
________________ २९८ श्रीउत्तराध्ययनदीपिकाटीका - १ 1 पिबामीति चिन्तयन् क्षुरधाराभिर्व्यापादितः कोऽर्थः ? यावदहं तृषाक्रान्तो जलं पिबामीति ध्यायन् वैतरणीं नदीं प्राप्तस्तावत्तन्नदीकल्लोलैरहं हतो, यतस्तज्जलं क्षुरधाराप्रायं गलच्छेदकमस्तीति भावः ॥ ६० ॥ उहाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेहिं, छिन्नपुव्वो अनंतसो ॥ ६१ ॥ व्याख्या - पुनरहमुष्णाभितप्त आतपपीडितश्छायार्थी सन् असिपत्रं महावनं खड्गवत्तीक्ष्णधारोपेतपत्रव्याप्तवृक्षवेष्टितं काननं (सं) प्राप्तस्तदा पतद्भिस्तैरसिपत्रैरनन्तशोSनेकवारं छिन्नपूर्वोद्विघाकृतः ॥ ६१ ॥ मुग्गरेहिं मुसंढीहिं, सूलेहिं मुसलेहि य । गयाहिं संभग्गगत्तेहिं, पत्तं दुक्खमणंतसो ॥६२॥ व्याख्या- हे पितरौ ! अहं मुद्गरैर्लोहमयैरायुधविशेषैश्च पुनर्मुसण्ढीभिः शस्त्रविशेषैः, तथा शूलैस्त्रिशूलैश्च पुनर्मुसलैः, तथा गदाभिर्लोहमयीभिर्यष्टिभिरनन्तशो दुःखं प्राप्तं, कीदृशैस्तैः शस्त्रैः ? सम्भग्नगात्रैश्चूर्णितशरीरैः ॥६२॥ खुरेहिं तिक्खधाराहिं, छुरियाहिं कप्पणीहि य । कप्पओ फालियो छिन्नो, उक्कित्तो व अणेगसो ॥ ६३ ॥ व्याख्या - पुनरहं क्षुरै रोममुण्डनसाधनैस्तीक्ष्णधाराभिः क्षुरिकाभिः कल्पनीभिः कर्त्तरीभिरहं कल्पितो वस्त्रवत् खण्डितः, पुनः स्फाटितो वस्त्रवदूद्ध्वं विदारितः, पुनश्छिन्नः क्षुरिकाभिः कर्कटीव खण्डितः, पुनरुत्कृतस्त्वगपनयनेन, एवमनन्तशो वारंवारं कदर्थितः ॥६३॥ पासहिं कूडजालेहिं, मिओ वा अवसो अहं । वाहिओ बद्धरुद्धो य, बहुसो चेव विवाइओ ॥ ६४ ॥ 7 व्याख्या T - पुनर्हे पितरौ ! अहं बहुशो वारंवारं पाशैर्बन्धनैस्तथा कूटजालैः कूटवागुरादिभिर्मृग इव 'वाहिओ 'त्ति विप्रलुब्धः, तथा बद्धो रुद्धश्च बाह्यप्रचारानिषिद्धः, यथा मृगं वञ्चयित्वा पाशे निक्षिपन्ति, तथाहमपि वञ्चितो बद्धो रुद्धश्च । च पुनरेव निश्चयेनाऽवशः परवशेऽहं व्यापादितो मारित इति ॥ ६४ ॥ गलेहिं मगरजालेहिं, मच्छो वा अवसो अहं । उलिओ फालिओ गहिओ, मारिओ य अनंतसो ॥ ६५ ॥ For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350