Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 339
________________ श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या हे पितरौ ! पुनरहं कन्दुकुम्भीषु लोहमयपाचनभाण्डविशेषेषु ऊर्ध्वं वृक्षशाखादौ बद्धः सन् परमाधार्मिकदेवैरिति । [अबान्धव इति च तत्राशरणतामाह,] करपत्रैः क्रकचैश्च अनन्तशो बहुवारं छिन्नपूर्वो द्विधाकृतोऽस्मि, यथा काष्ठं बद्ध्वा करपत्रैश्छिद्यते तथाहं छिन्नोऽस्मि ॥५२॥ अइतिक्खकंटयाइन्ने, तुंगे सिंबलिपायवे । खेवियं पासबद्धेणं, कड्डाकड्डाहि दुक्करं ॥५३॥ व्याख्या-हे पितरौ ! अतितीक्ष्णकण्टकाकीर्णे तुङ्गे उच्चे शम्बलपादपे कडाकडैः कर्षापकर्षणैः परमाधार्मिककृतैः क्षेपितं पूर्वोपार्जितं कर्म अनुभूतं, मया यानि कर्माण्युपार्जितानि तानि भुक्तानीति शेषः, कीदृशेन मया ? पाशबद्धेन रज्ज्वासञ्जितेन, इदमपि दुष्करं कष्टं भुक्तमिति शेषः ॥५३|| महाजंतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओ मि सकम्मेहिं, पावकम्मो अणंतसो ॥५४॥ व्याख्या हे पितरौ ! पुनरहं पापकर्मा, पापं कर्म यस्य स पापकर्मा, एवंविधोऽहं अनन्तशो बहुवारं स्वकर्मभिर्महायन्त्रेषु पीडितोऽस्मि, क इव? इक्षुरिव, यथा इक्षुर्महायन्त्रेषु पील्यते तथा, किं कुर्वन्नहं? सुभैरवं सुतरामत्यन्तं भैरवं भयानकं शब्दमारसन्नाक्रन्दं कुर्वन्नित्यर्थः ॥५४॥ कूयंतो कोलसुणएहिं, सामेहिं सबलेहि य । पाडिओ फालिओ छिन्नो, विफुरंतो अणेगसो ॥५५॥ व्याख्या-हे पितरौ ! अनेकशोऽनेकवारं श्यामैः श्यामाभिधानैः, च पुनः शबलैः शबलाभिधानैः परमाधार्मिकदेवैः भूमौ पृथिव्यामहं पातितः, कीदृशैस्तैः ? कोलशूनकैर्वराहकुर्कुररूपधारिभिर्देवैः पुनरहं स्फाटितः, पुरातनवस्त्रवद्विदारितः, पुनरहं तैर्दन्ष्ट्राभिश्च वृक्षवच्छिन्नः, एवंविधोऽहं कूजन् अव्यक्तं शब्दं कुर्वन् विस्फुरन् सन् स्थितः ॥५५|| असीहिं अयसिवन्नाहिं, भल्लिहिं पट्टिसेहि य । छिन्नो भिन्नो विभिन्नो य, उइण्णो पावकम्मुणा ॥५६॥ व्याख्या हे पितरौ ! पुनरहं पापकर्मणा उदीर्णः प्रेरितः सन् नरकेषु असिभिः खड्गः, पुनर्भल्लीभिः कुन्तैस्त्रिशूलैर्वा, च पुनः पट्टिशैः प्रहरणविशेषैश्छिन्नो द्विधाकृतः, Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350