Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२९५
एकोनविंशं मृगापुत्रीयाध्ययनम्
जहा इहं अगणी उण्हो, इत्तो अणंतगुणो तहिं।
नरएसु वेयणा उण्हा, असाया वेड्या मए ॥४८॥ व्याख्या हे पितरौ ! येषु नरकेष्वहमुत्पन्नस्तेषु नरकेषु मया उष्णा: स्पर्शनेन्द्रियदुःखदा असातावेदना वेदिता भुक्ताः, कीदृशास्ता उष्णा ? यथा इह मनुष्यलोकेऽग्निरुष्णो वर्त्तते, ततोऽप्यनन्तगुणोऽग्निस्पर्शस्तत्रास्ति, तत्र च बादराग्नेरभावात् पृथिव्या एव तथाविधो मेरुगिरिगालनक्षमः स्पर्शोऽस्तीति ॥४८॥
जहा इह इमं सीयं, इत्तोऽणंतगुणो तहिं ।
नरएसु वेयणा सीया, अस्साया वेड्या मए ॥४९॥ व्याख्या-यथा इह मनुष्यलोके इदं प्रत्यक्षं माघादिभवं शीतं वर्त्तते, इतः शीतादप्यनन्तगुणं शीतं नरकेषु वर्त्तते तत्र मया स्पर्शनेन्द्रियदुःखरूपा असाता वेदना अनुभूतास्ति ॥४९॥
कंदंतो कंदुकुंभीसु, उड्डपाओ अहोसिरो ।
हुयासणे जलंतंमि पक्कपुव्वो अणंतसो ॥५०॥ व्याख्या हे पितरौ ! अहं कन्दुकुम्भीषु पाकभाजनविशेषासु लोहमयीषु ज्वलति हुताशने देवमायाकृते वह्नौ अनन्तशो बहून् वारान् , ऊर्ध्वपाद ऊर्ध्वचरणश्च पुनरधःशिरा अधोमस्तकः क्रन्दन् पूत्कृतिं कुर्वन् पक्वपूर्वोऽस्मि ॥५०
महादवग्गिसंकासे, मरुम्मि वयरवालुए।
कलंबवालुयाए व, दड्डपुव्वो अणंतसो ॥५१॥ व्याख्या हे पितरौ ! कलम्बवालुकाया नद्या मरुम्मि वालुकानिवहे अनन्तशो वारं वारमहं दग्धपूर्वः, कलम्बवालुका नरकनदी, तस्याः पुलीनधूल्यां भ्रष्टपूर्वः, यथात्र चणकादिधान्यानि भ्राष्ट्रे भुज्यन्ते तथाहमपि बहुशो दग्धः, कथम्भूते मरौ ? महादवाग्निसङ्काशे महादवानलसदृशे दाहकशक्तियुक्ते, पुनः कीदृशे ? वज्रवालुके वज्र इव वालुका यस्मिंस्तस्मिन् वज्रवालुके ॥५१॥
रसंतो कंदुकुंभीसु, उड़े बद्धो अबंधवो । करवत्तकरवयाईहिं, छिन्नपुव्वो अणंतसो ॥५२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350