Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
एकोनविंशं मृगापुत्रीयाध्ययनम्
२९३ वालुयाकवले चेव, निरस्साए उ संजमे ।
असिधारागमणं चेव, दुक्करं चरिउं तवो ॥३८॥ व्याख्या-वालुकाकवलो यथा निःस्वादस्तथा संयमोऽपि निःस्वादो लूक्ष एवास्ति । पुनरसिधारायां गमनं खड्गधारोपरि चलनं यथा दुष्करं तथा तपश्चरितुमपि दुष्करमेव ॥३८॥
अहीवेगंतदिट्ठीए, चरित्ते पुत्त दुच्चरे ।
जवा लोहमया चेव, चावेयव्वा सुदुक्करं ॥३९॥ व्याख्या-अहिरिवैकान्तो निश्चयो यस्याः सा एकान्तदृष्टिस्तया एकान्तदृष्ट्या अनन्याक्षिप्तया, यथा सर्प एकाग्रदृष्ट्या चलति, इतस्ततश्च न विलोकयति, तथा हे पुत्र ! साधुश्चारित्रे श्रामण्ये मोक्षमार्गप्रत्येव दृष्टिं विधाय चरेत् । कीदृशे चारित्रे ? दुश्चरे, यथा लोहमया यवाश्चर्वितव्या दुष्करास्तथा चारित्रमपि चरितुं दुष्करमेव ॥३९॥ __जहा अग्गिसिहा दित्ता, पाउ होइ सुदुक्करं ।
तह दुक्करं करेउं जे, तारुण्णे समणत्तणं ॥४०॥ व्याख्या-हे पुत्र ! यथाऽग्निशिखा दीप्ता सती पातुं पानं कर्तुं सुतरां दुष्करास्ति, तथा तारुण्ये यौवने श्रमणत्वं कर्तुं पालयितुं दुष्करमस्ति ॥४०॥
जहा दुक्खं भरेउं जे, होइ वायस्स कोत्थलो ।
तहा दुक्खं करेउं जे, कीवेणं समणत्तणं ॥४१॥ व्याख्या-हे पुत्र ! यथा वायोरिति वायुना भरितुं पूरयितुं कोस्थलो वस्त्रादिमयश्चमर्मयो वा दुष्करं, तथा क्लीबेन हीनसत्वेन श्रामण्यं कर्तुं दुष्करमस्तीति ॥४१।।
जहा तुलाए तोलेउं, दुक्करं मंदरो गिरि ।
तहा निहुयं निस्संकं, दुक्करं समणत्तणं ॥४२॥ व्याख्या-यथा मन्दरो गिरिर्मेरुपर्वतस्तुलया तोलितुं दुष्करस्तथा निभृतं निश्चलं वा, तथा निःशङ्कं शङ्कारहितं शरीरादिनिरपेक्षं यथास्यात्तथा श्रमणत्वं शरीरेण धर्तुं दुष्करम् ॥४२॥
जहा भुयाहि तरिउं, दुक्करं रयणायरो । तहा अणुवसंतेणं, दुक्करं दमसायरो ॥४३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350