Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 335
________________ २९२ श्रीउत्तराध्ययनदीपिकाटीका-१ कावोया जा इमा वित्ती, केसलोओ य दारुणो । दुक्खं बंभवयं घोरं, धारेयव्व महप्पणो ॥३४॥ व्याख्या-कपोतानां पक्षिणां येयं वृत्तिः सा कापोतिका वृत्तिः, यथाहि ते नित्यं शङ्किताः कणकीटादिग्रहणे प्रवर्त्तन्ते, भक्षयित्वा च ते सार्थे किमपि न गृह्णन्ति । एवं भिक्षुरप्येषणादोषं शङ्कमान एव भिक्षादौ प्रवर्त्तते, न च सार्थे किमपि सञ्चयं करोति । पुनः साधोः केशलोचोऽपि दारुणो भयदोऽस्ति । पुनर्महात्मना साधुना ब्रह्मव्रतं धारयितव्यं दुःखमिति दुष्करं, कीदृशं ब्रह्मव्रतं ? घोरं, अन्येषामल्पसत्त्वानां भयदायकं, ब्रह्मव्रतस्य दुर्द्धरत्वोक्तिरतिदुष्करत्वज्ञप्त्यै ॥३४।। अथोपसंहरति सुहोईओ तुमं पुत्ता, सुकुमालो समुज्जओ । ण हुसी पभू तुमं पुत्ता, सामण्णमणुपालिया ॥३५॥ व्याख्या हे पुत्र ! त्वं सुखोचितः सुकुमालः, समुद्यतश्चारित्रग्रहणाय सम्यक् उद्यतोऽसि (पाठान्तरे-'सुमज्जिओ त्ति' सुष्ठ स्नापितः) सर्वनेपथ्यादिभिर्लालितोऽसि, अतस्त्वं श्रामण्यं साधुत्वमनुपालयितुं समर्थो न भविष्यसीति ॥३५।। अथाऽप्रभुत्वं दृष्टान्तैर्दर्शयति जावज्जीवमविस्सामो, गुणाणं तु महब्भरो । गरुओ लोहभारु व्व जो पुत्ता होइ दुव्वहो ॥३६॥ व्याख्या-हे पुत्र ! गुणानां चारित्रस्य मूलोत्तरगुणानां महाभारः, स च लोहभार इव गुरुर्गरिष्ठो दुर्वहो भवति, कीदृशोऽसौ महाभारः ? यावज्जीवमविश्रामो विश्रामरहितः, यश्च दुर्वहो दुःखेन सोढुं शक्योऽस्ति ॥३६॥ आगासे गंगसोउ व्व, पडिसोउ व्व दुत्तरो। बाहाहिं सागरो चेव, तरियव्वो गुणोयही ॥३७॥ व्याख्या-आकाशे हिमवत्पतङ्गगास्त्रोतोवद् दुस्तरो गुणाब्धिः, लोकरूढ्याचैतदुक्तं, तथा प्रतिश्रोतोवत् , यथाऽशेषनद्यादौ प्रतीपजलप्रवाहो दुस्तरः, तथा बाहुभ्यां सागर इव दुस्तरो यस्तरितव्यः, गुणाश्च ज्ञानादयस्त एवात्रोदधिज्ञेयः ॥३७॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350